अक्षर आकार:

संस्कृतदिवसनिमित्तं संस्कृतस्तुतिदशकम्

Sanskrit verses for Sanskrit day

संस्कृतदिवसनिमित्तं संस्कृतस्तुतिदशकम्

यत् संस्कृतं देवपुरस्य भाषा वेदस्य भाषा मुनिलोकभाषा । पुराणभाषा स्मृतितत्त्वभाषा संस्कारभाषा च पवित्रभाषा ॥ १॥ सत्कर्मभाषा हितकर्मभाषा जीवस्य भाषा गृहशुद्धभाषा । तीर्थस्य भाषाखिलतत्त्वभाषा विमुक्तिभाषा परिसिद्धभाषा ॥ २॥ धर्मस्य भाषा विभवस्य भाषा कामस्य भाषा खलु मुक्तिभाषा । सुनीतिभाषा नृपनीतिभाषा भाषासु शिष्टा सुजनस्य भाषा ॥ ३॥ रामायणस्था मधुरस्य भाषा सेयं महाभारतलेखभाषा । आयुर्गमा दर्शनशास्त्रभाषा सहित्यिका व्याकरणोक्तभाषा ॥ ४॥ काव्यस्य भाषा रससृष्टिभाषा ज्ञानस्य भाषा कविवृन्दभाषा । सद्भावभाषा गुणराशिभाषा विनम्रभाषा सरलस्य भाषा ॥ ५॥ स्नेहस्य भाषा विबुधस्य भाषा सम्मानभाषा शुभदायिभाषा । राज्ञां च भाषा सचिवस्य भाषा विज्ञानभाषा ग्रहचक्रभाषा ॥ ६॥ भाषाभिवन्द्या सुरकार्यदक्षा दुर्दण्डदण्ड्या यमचाण्ड्यखण्ड्या । अभेदभेद्याखिलकार्यसाध्या त्रितापतापा भवसिन्धुनौका ॥ ७॥ भद्रातिभद्रा नमनीयभावा क्रोधेन हीना समभावपूर्णा । प्रशान्तभावा कमनीयरूपा समग्रविश्वस्य समृद्धिकामा ॥ ८॥ आशीःप्रदात्री बहुभाग्यदात्री प्रफुल्लदात्री जनशौर्यदात्री । सौन्दर्यकर्त्री सुरराज्यदात्री यशोविभर्त्री गुणभाण्डधर्त्री ॥ ९॥ हे संस्कृतज्ञा! यदि संस्कृतं नः गृहे सुतानां वदने सदा स्यात् । क्रमेण तत् भास्यति सर्वविश्वे तदा जनानां सुखदा भवेत् सा ॥ १०॥ इति श्रीव्रजकिशोरत्रिपाठीविरचितं संस्कृतस्तुतिदशकम् सम्पूर्णम् ।