अक्षर आकार:

संस्कृतभाषा सरला सुलभा

Samskritabhasha Sarala Sulabha

संस्कृतभाषा सरला सुलभा

संस्कृतभाषा सरला सुलभा माता मम सा पुत्रवत्सला ॥ भाषणमनया दशदिनसाध्यं तोएषकरं ननु सरलतरम् । स्यात् संस्कृततो नवता समता मधुरो भावो देशहितम् ॥ उटजनिवासी भवनावासी वृद्धो शिशुरपि तरुणगणोऽपि । यो वा को वा भारतवासी अर्हति भवितुं संस्कृतभाषी ॥ सन्तु हि दोषाः प्रथमे घट्टे सिध्यति शुद्धिर्यत्नबलात् । मास्तु भयं हृदि शङ्का लज्जा यत्नः क्रियतां अनवरतम् ॥ अविरतसेवा वाचा पूजा संस्कृतमातुर्भवतु चिरम् । जनपदभाषा भारतभूषा संस्कृतभाषा जयतुतराम् । - जनार्दन हेगडे