अक्षर आकार:

संस्कृतभाषागरिमा

Samskrita Bhasha Garima

संस्कृतभाषागरिमा

(शिखरिणी) ऋषीणामाद्यानां गहन-मननावाप्त-सुयशा, श्रुतीनां शास्त्राणां निखिल-गुण-तत्त्वार्थ निलया । पुरातत्त्वाऽऽधारा सकल-भव ज्ञानाब्धि-विभवा, जयेद् दैवी वाणी त्रिभुवन-मनोज्ञा बुध प्रिया ॥ १॥ (अनुष्टुभ्) दिव्या गीर्वाणवाणीयं ज्ञान-शक्ति-सुख-प्रदा । मानसे रमता नित्यं हृदि मे सुखमावहेत् ॥ २॥ संस्कृते सुन्दरं सर्वं संस्कृते मधुरं समम् । संस्कृते ज्ञान-विज्ञानं संस्कृते सुषमा शुभा ॥ ३॥ संस्कृतं देवभाषाऽस्ति विदुषां च मनोरमम् । संस्कृतं जन-तापस्य हारकं परमं मतम् ॥ ४॥ देशभक्तिः गुणप्रीतिः शिक्षितुं यदि ते मनः । संस्कृते मन आधत्स्व ज्ञान विज्ञान-वारिधौ ॥ ५॥ संस्कृते नहि काठिन्यं यथेदमवमानितम् । लोक-भाषा-पद प्राप्ता विद्वद्भाषेति वन्द्यते ॥ ६॥ संस्कृतं भारतस्यास्ति गौरवं मान-वर्धनम् । वेद शास्त्रैर्युतं काव्ये गीता-रामायणादिभिः ॥ ७॥ संस्कृते संस्कृतिः पूता राष्ट्र-गौरव-वृद्धि दा । ज्ञान विज्ञानमध्यात्मं शिक्षा विश्वसुखावहा ॥ ८॥