अक्षर आकार:

संस्कृता सुरभारती

Samskrita Surabharati

संस्कृता सुरभारती

सर्वमङ्गलदायिनीयं दिव्यमानवसंस्कृतिः । वसतु मामकहृदयकमले लसतुभारतभूतले ॥ १॥ (सर्वमङ्गल ) पावनेऽस्मिन् भरतदेशे ऋषिवराणां जन्मगेहे । तुङ्गहिमनगराजितेऽस्मिन् संस्कृताश्रितसंस्कृतिः ॥ २॥ (सर्वमङ्गल ) पूर्वजानां गहनतपसा फुल्लसंस्कृतभव्यकमलम् । अनवरतमिदममृतमतुलं पूरयतु नवसौरभम् ॥ ३॥ (सर्वमङ्गल ) वहतु पुनरियमार्यभुवने कविभिरनिशं सेविता । मुनिभिरार्जितमन्त्रनिनदैः संस्कृता सुरभारती ॥ ४॥ (सर्वमङ्गल )