अक्षर आकार:

साधयति संस्कार भारति भारते नवजीवनं

Sadhayati Samskara Bharati Bharate Navajivanam

साधयति संस्कार भारति भारते नवजीवनं

साधयति संस्कारभारति भारते नवजीवनं प्रणवमूलं प्रगतिशीलं प्रखरराष्ट्रविवर्धकम् ॥ ध्रु ॥ शिवं सत्यं सुन्दरं अभिनवं संस्करणोद्यमं मधुर मञ्जुल रागभारित हृदय तन्त्री मन्त्रितं वादयति सङ्गीतकं वसुदैकभावन पोषकम् ॥ १॥ ललित रसमय लास्य लीला चण्ड ताण्डव गमकहेला कलित जीवन नाट्यवेदं कान्ति क्रान्ति कथा प्रमोदं चतुर्वृष्टि कलान्वितं परमेष्ठिना परिवर्तितम् ॥ २॥ विश्वचक्रभ्रमणरूपं शाश्वतं श्रुतिसम्मतं जीवयत्वभिलेखमखिलं सप्तवर्ण समीकृतं प्लावयति रस सिन्धुना प्रतिहिन्दुमानसनन्दनम् ॥ ३॥