अक्षर आकार:

सादरं समीहताम्

Sadaram Samihatam

सादरं समीहताम्

सादरं समीहतां वन्दना विधीयतां श्रद्धया स्वमातृभू-समर्चना विधीयताम् ॥ आपदो भवन्तु वा, विद्युतो लसन्तु वा आयुधानि भूरिशोऽपि मस्तके पतन्तु वा धीरता न हीयतां, वीरता विधीयतां निर्भयेन चेतसा पदं पुरो निधीयताम् ॥ १॥ प्राणदायिनी इयं त्राणदायिनी इयं शक्तिमुक्तिभक्तिदा सुधाप्रदायिनी इयं एतदीयवन्दने सेवनेऽभिनन्दने साभिमानमात्मनो जीवनं प्रदीयताम् ॥ २॥ - वासुदेव द्विवेदी शास्त्री