अक्षर आकार:

रत्नगर्भा धरा सुस्मिता श्यामला

Ratnagarbha Dhara Susmita Shyamala

रत्नगर्भा धरा सुस्मिता श्यामला

रत्नगर्भा धरा सुस्मिता श्यामला दिव्यतीर्थास्तटाः पर्वताः सिन्धवः निर्झराः वाटिकाश्चात्र देवालयाः भव्यमेतत्प्रियं भारतं भूतले ॥ १॥ वेदशास्त्राणि साहित्यकाव्यानि वा यत्र यच्छन्ति लोकाय सत्प्रेरणं रम्यरामायणं श्रीमहाभारतं राष्ट्रमेतद्वरं भारतं भूतले ॥ २॥ यत्र देवी सती शारदा जानकी चानुसूया शिवा द्रौपदी पद्मिनी सन्ति सर्वा इमाः वत्सलाः मातरः शक्तियुक्तं शिव भारतं भूतले ॥ ३॥ रामकृष्णौ हरी वर्धमानो जिनो गौतमः शङ्करः पाणिनिर्नानकः श्री दयानन्द साधुश्च देशे-भवन देशिकानामिदं भारतं भूतले ॥ ४॥ भारतीयाः स्वभावेन शान्तिप्रियाः ज्ञानविज्ञानसेवारताः कर्मठाः मानवी भावना भासते संस्कृतौ सत्यसंशोधकं भारतं भूतले ॥। ५॥ -आचार्य राधाकृष्ण मनोडी