अक्षर आकार:

रक्तदानम्

Raktadanam

रक्तदानम्

(भुजङ्गप्रयातं वृत्तम्) इदं भारतं याचते रक्तदानं धरेयं सदा भिक्षते देहदानम् । सदा पीडिता शोषिता भारती भूः सदा तप्तगात्रा शुचा क्षीणकान्तिः ॥ सुता येऽधुना स्वार्थ-सम्मुग्ध चित्ता, धनैगर्हितैर्गौरवं कामयन्ते । निजं स्वार्थ लिप्ता धनैकाश्रयास्ते । न मातुः शुचः चेतसा चिन्तयन्ति ॥ न नीचैः खलैरेभिरेषा धरित्री शुचाऽऽक्रान्त-चित्ताऽवमोक्तुं तु शक्या । इयं धीर-धुयैर्मुदा देहत्यागैः स्व-रक्त-प्रदानैः सदा सान्त्वनीया ॥ इयं शोषिताऽऽङ्ःलै सदा क्रूरधीभिः इयं पीडिता पामरैयाविनैश्च । इयं शोष्यते भूतिवादैरजस्रं सदा धर्महीनैः सदा क्रूरकृत्यैः ॥ धरेयं विनष्टा प्रतप्ता कुपुत्रैः खलैर्धमहीनैः सदा स्वार्थपूरैः । न ते मातृभूमे शुचः चिन्तयन्ति नराः पामरास्ते सदा गर्हणीया ॥ न तेष्वस्ति देशोन्नते काचिदाशा न देशाभिमानं न वा देशभक्तिः । सदा शोषणे दत्तचित्ता समे ते नराणां भवेयु सदा कोपभाजः ॥ स्वदेशे विदेशे च ये देशभक्ताः, नरैस्तर्पिता तैर्धरा रक्तदानैः । बलिस्तादृशाः कीर्तिभाजा धरित्री सदा सौख्ययुक्ताः सुपुष्टा विधत्ते ॥ अये भारतीयाः निजं कर्मजातं हृदा चिन्तयध्वं तथा च कुरुध्वम् । इय मातृभूः शोक-सन्ताप-ग्रस्ता सदा याचते तेऽवधानं समग्रम् ॥ मुदा रक्तदानं मुदा वित्तदानं मुदा भूमिदानं मुदा स्वार्थ-दानम् । मुदा आत्मत्यागो मुदा देहत्यागं स्वमातुर्हितायेप्सितं सौख्यसिद्धयैः ॥ विना रक्तदानं न सम्भाव्यते श्री, न वा शोकनाशो न दुःखाऽधि-नाशः । सदा रक्तदानाऽऽश्रया श्री समृद्धिः गुणानां विवृद्धिः सुखानां च सिद्धिः ॥