अक्षर आकार:

श्रीरामकृष्ण विलोम काव्यं (कवि सूर्य)

shrIrAmakRiShNa viloma kAvyaM (kavi sUrya)

श्रीरामकृष्ण विलोम काव्यं (कवि सूर्य)

तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः । श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥ १॥ चिरं विरंचिर्न चिरं विरंचिः साकारता सत्यसतारका सा । साकारता सत्यसतारका सा चिरं विरंचिर्न चिरं विरंचिः ॥ २॥ तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा । माययाक्षसमक्षयायमा तामसीत्यसति सत्यसीमता ॥ ३॥ का तापघ्नी तारकाद्या विपापा त्रेधा विद्या नोष्णकृत्यं निवासे । सेवा नित्यं कृष्णनोद्या विधात्रे पापाविद्याकारताघ्नी पताका ॥ ४॥ श्रीरामतो मध्यमतोदि येन धीरोऽनिशं वश्यवतीवराद्वा द्वारावतीवश्यवशं निरोधी नयेदितो मध्यमतोऽमरा श्रीः ॥ ५॥ कौशिके त्रितपसि क्षरव्रती योऽददाद्ऽद्वितनयस्वमातुरम् । रन्तुमास्वयन तद्विदादयोऽ तीव्ररक्षसि पतत्रिकेशिकौ ॥ ६॥ लम्बाधरोरु त्रयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा । ज्ञातागमा रक्ष हि याहि या त्वं सेना बलं यत्र रुरोध बालम् ॥ ७॥ लङ्कायना नित्यगमा धवाशा साकं तयानुन्नयमानुकारा । राकानुमा यन्ननु यातकंसा शावाधमागत्य निनाय कालम् ॥ ८॥ गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः । तामसाक्षरतातीते ये रावैरध्वजाधिगाः ॥ ९॥ तावदेव दया देवे यागे यावदवासना । नासवादवया गेया वेदे यादवदेवता ॥ १०॥ सभास्वये भग्नमनेन चापं कीनाशतानद्धरुषा शिलाशैः । शैलाशिषारुद्धनताशनाकी पञ्चानने मग्नभये स्वभासः ॥ ११॥ न वेद यामक्षरभामसीतां का तारका विष्णुजितेऽविवादे । देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन ॥ १२॥ तीव्रगोरन्वयत्रार्यो वैदेहीमनसो मतः । तमसो न महीदेवै- र्यात्रायन्वरगोव्रती ॥ १३॥ वेद या पद्मसदनं साधारावततार मा । मारता तव राधा सा नन्द सद्मप यादवे ॥ १४॥ शैवतो हननेऽरोधी यो देवेषु नृपोत्सवः । वत्सपो नृषु वेदे यो धीरोऽनेन हतोऽवशैः ॥ १५॥ नागोपगोऽसि क्षर मे पिनाकेऽ नायोऽजने धर्मधनेन दानम् । नन्दानने धर्मधने जयो ना केनापि मे रक्षसि गोपगो नः ॥ १६॥ ततान दाम प्रमदा पदाय नेमे रुचामस्वनसुन्दराक्षी । क्षीरादसुं न स्वमचारु मेने यदाप दाम प्रमदा नतातः ॥ १७॥ तामितो मत्तसूत्रामा शापादेष विगानताम् । तां नगाविषदेऽपाशा मात्रासूत्तमतो मिता ॥ १८॥ नासावद्यापत्रपाज्ञाविनोदी धीरोऽनुत्या सस्मितोऽद्याविगीत्या । त्यागी विद्यातोऽस्मि सत्त्यानुरोधी दीनोऽविज्ञा पात्रपद्यावसाना ॥ १९॥ संभावितं भिक्षुरगादगारं याताधिराप स्वनघाजवंशः । शवं जघान स्वपराधिताया रङ्गादगारक्षुभितं विभासम् ॥ २०॥ तयातितारस्वनयागतं मा लोकापवादद्वितयं पिनाके । केनापि यं तद्विदवाप कालो मातंगयानस्वरतातियातः ॥ २१॥ शवेऽविदा चित्रकुरङ्गमाला पञ्चावटीनर्म न रोचते वा । वातेऽचरो नर्मनटीव चापं लामागरं कुत्रचिदाविवेश ॥ २२॥ नेह वा क्षिपसि पक्षिकंधरा मालिनी स्वमतमत्त दूयते । ते यदूत्तमतम स्वनीलमा- राधकं क्षिपसि पक्षिवाहने ॥ २३॥ वनान्तयानस्वणुवेदनासु योषामृतेऽरण्यगताविरोधी । धीरोऽवितागण्यरते मृषा यो सुनादवेणुस्वनयातनां वः ॥ २४॥ किं नु तोयरसा पम्पा न सेवा नियतेन वै । वैनतेयनिवासेन पापं सारयतो नु किम् ॥ २५॥ स नतातपहा तेन स्वं शेनाविहितागसम् । संगताहिविनाशे स्वं नेतेहाप ततान सः ॥ २६॥ कपितालविभागेन योषादोऽनुनयेन सः । स नये ननु दोषायो नगे भाविलतापिकः ॥ २७॥ ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता । ताल्पिकभ्रमरसप्रकल्पना कालिमर्णव पिक प्रभासते ॥ २८॥ रावणेऽक्षिपतनत्रपानते नाल्पकभ्रमणमक्रमातुरम् । रन्तुमाक्रमणमभ्रकल्पना तेन पात्रनतपक्षिणे वरा ॥ २९॥ दैवे योगे सेवादानं शङ्का नाये लङ्कायाने । नेयाकालं येनाकाशं नन्दावासे गेयो वेदैः ॥ ३०॥ शङ्कावज्ञानुत्वनुज्ञावकाशं याने नद्यामुग्रमुद्याननेया । याने नद्यामुग्रमुद्याननेया शंकावज्ञानुत्वनुज्ञावकाशम् ॥ ३१॥ वा दिदेश द्विसीतायां यं पाथोयनसेतवे । वैतसेन यथोपायं यन्तासीद्ऽविशदे दिवा ॥ ३२॥ वायुजोऽनुमतो नेमे संग्रामेऽरवितोऽह्नि वः । वह्नितो विरमे ग्रासं मेनेऽतोऽमनुजो युवा ॥ ३३॥ क्षताय मा यत्र रघोरितायु- रङ्कानुगानन्यवयोऽयनानि । निनाय यो वन्यनगानुकारं युतारिघोरत्रयमायताक्षः ॥ ३४॥ तारके रिपुराप श्री- रुचा दाससुतान्वितः । तन्वितासु सदाचारु श्रीपुरा पुरि के रता ॥ ३५॥ लङ्का रङ्कांगराध्यासं याने मेया काराव्यासे । सेव्या राका यामे नेया संध्यारागाकारं कालम् ॥ ३६॥ ॥ इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥