अक्षर आकार:

रात्रिशयनस्तुतिः

Ratrishayanastutih

रात्रिशयनस्तुतिः

जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ १॥ अगस्तिर्माधवश्चैव मुचुकुन्दो महाबलः । कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥ २॥ सर्पापसर्प भद्रं ते दूरं गच्छ महाविष । जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥ ३॥ विश्वेश्वरीं जगद्धात्रीं स्थिति-संहार-कारिणीम् । निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ ४॥ तिस्रो भार्याः कफल्लस्य दाहिनी मोहिनी सती । तासां स्मरणमात्रेण चौरो गच्छति निष्फलः ॥ ५॥ इति रात्रि-शयनस्तुतिः सम्पूर्णा ।