अक्षर आकार:

राष्ट्रोद्बोधनम्

Rashtrodbodhanam

राष्ट्रोद्बोधनम्

(उपजातिवृत्तम्) प्रवर्तितं साधु प्रशासनेन यद् योजनाऽऽयोजनमत्र हृद्यम् । सर्वस्य साहाय्यमपेक्षते तद् हृदा प्रयोज्य सुख शान्ति-हेतोः ॥ राष्ट्रस्य वृद्ध्यै जनता-समृद्ध्यैः प्रवर्तितं योजन-सूक्ष्म-जालम् । देशः श्रिया श्लिष्यतु येन सद्यो दीनार्त-लोकोद्धृति-रक्षणं स्यात् ॥ उद्योगमास्थाय विकास कार्ये औद्योगिके वा कृषि-कार्य-जाते । तन्नाश्रिते यत्न-समाश्रिते च सर्वात्मना साधु प्रयत्यमेव ॥ देशस्य रक्षामधिश्रित्य सद्य स्याज्जागरूकत्वमजस्रमेव । विरोधि शक्तेर्दलनेन नित्यं स्वपौरुषस्याभिनवा विवृद्धिः ॥ बलं निधीयेत विकास-कार्ये समाज-कल्याण-परम्परासु । स्यादेकता सौख्यकरी जनेषु विभेदलेशो न भुवः स्पृशेच्च ॥ भाषाश्रितं प्रान्त-समुत्थितो वा धर्माश्रयो जाति विवर्ग-निष्ठः । यः कोऽपि भेदो न स वृद्धिमेयात् सर्वे वयं भारत-भू-सुपुत्राः ॥ राष्ट्रस्य वृद्ध्यै नितरामपेक्ष्य श्रमं कठोरो मनुजैः समस्तैः । निर्माणमूला प्रहिता सुदृष्टिः स्यात् सर्वकार्येषु मनोबलाढ्या ॥ देशे विदेशे यदि वा कुचक्रं स्वातन्त्र्य नाशाय प्रवर्तितं स्यात् । ध्वस्य प्रमथ्यं च तदायसेन । करेण सर्वैर्दृढ निश्चयेन ॥ आचारहीनत्वमुपेक्षणं च भ्रष्टाऽऽश्रयाऽचार परम्परा वा । अनैतिकत्वं परशोषणं च सर्वं समाप्य निजराष्ट्र-वृद्ध्यैः ॥ शान्त्यैः प्रगत्यैः अवमत्य भेदान् लोका समे सङ्घटिता भवेयुः । चारित्रिकी प्राप्य समुन्नतिं च सर्वापराधापनयं क्रियेत ॥