अक्षर आकार:

राष्ट्रिय कर्तव्यम्

Rashtriya Kartavyam

राष्ट्रिय कर्तव्यम्

(तोटकम्) सुखदा वरदा भय-ताप-हरी भव-भूति-विभूषित-सौख्यकरी । नव-संस्कृति-संस्कृत-संहति-दा भरतावनिरस्तु सदा प्रथिता ॥ नव-जागरण प्रथतां भुवने नव-दीप्ति-रुदेतु मनः सु सदा । नव-शक्ति-समुच्चय शोभित धी जनता जन-ताप हरी विलसेत् ॥ नहि मानवता नवता रहिता नहि दानवता नवता-सहिता । नवता प्रतिपद्य समे भुवने दनुजावलि-नाशनमस्तु कृतिः ॥ कृतिना कृतिरस्तु जनोद्धरणं जन-मानस-मान-समुद्धरणम् । नव-चेतनता तनुता नवता सकले विकलेऽपि जने प्रमुदे ॥ युवशक्तिरियं जन-शक्ति-युता जन-ताप-हृती लभता सुयशः । व्यपनोद्य तमस्तति-संसरणं निज-राष्ट्र-हिते रुचिमावहताम् ॥ नहि सा भुवने कठिनाऽपि कृति युव-शक्तिरियं न करोतु मुदा । जन-शिक्षणमार्थिकमुन्नयनं पतितार्त-दशोद्धरणं भरणम् ॥ युवकेषु विराजत एव विभा गुण-शक्ति-समुच्छ्रय-सङ्कलनम् । मृदुता दृढता विनयावनतिः गुण-सङ्ग्रहणेऽभिरुचिः सुकृतौ ॥ युवकाः निजकर्मणि सन्तु दृढाः पर-दुख निवारण-सक्त धियः । गुण गौरव शौर्य सुधा-सरसा सरसामवर्नि दधता कृतिभिः ॥ अबला नहि सन्त्यबला अधुना सबला प्रबला नय-वर्त्म-विदः । नव-जागरणे दधतेऽभिरुचिं नय-कर्मणि शर्मणि वर्मणि च ॥ प्रमदा प्रमुदा मुदमादधता नज-देश-समुद्धरणे निरता । विरता परदेश-परम्परया शुभ-शक्ति-समन्वित शौर्य-युता ॥ सुधियो ह्यवमत्य निज व्यसनं निजराष्ट्र-हिते सुकृते निरता । वर-वर्त्म-निबोधन-शक्त-धियो विलसन्तु भवे भव-ताप-हरा ॥ अयि शूरवरा प्रखरा प्रबला रिपु-संहति-नाशन-सक्त हृदः । समरे प्रखरे च विनाश्य रिपून् गुरु-गौरव-माप्नुत शौर्य-धनाः ॥ वणिजो निज-वित्त-चयं ददता पतितार्त हिताय सुखाय सदा । मलिना सरणिं परिहत्य निजां निज-देश-हिताय धनं दधताम् ॥ श्रमिणोऽपि श्रमे रुचिमादधत स्व-यशः प्रथयन्तु समे भुवने । श्रम एव समुन्नति सिद्धि-करं श्रम एव सुकीर्तिकरं सुखदम् ॥ श्रम एव हितं कुरुते भुवने श्रम एव समीहितमालभते । श्रम एव गुणोच्छ्रयमातनुते श्रम एव सुखौध-समृद्धि करः ॥ इदमाथिकमुन्नयनं प्रसरेद् नव-योजन-योजन-मवलितम् । दयनीय-दशा पतिता क्षुधिता मुदिता हृषिता स्युरिमे सुखिता ॥ निज-राष्ट्र-हितं सततं प्रबलं निज-जीवन-दान-मपीह शुभम् । निज-देश-हिते मरणं सुखदं निज-वित्त-समुच्चय-सन्यसनम् ॥ विलसेद् वसुधा, विकसेद् जनता, धन-धान्य-समुन्नतिरस्तु शुभा । नव-शक्ति-समुच्चय-शान्तधियो नर-वीर-वरा विलसन्तु सदा ॥ न विरोधकृता गतिरस्तु शुभा नहि देशहिताय विरोध-मतिः । समवेत्य समे निज-राष्ट्र-हिते दधता स्व-मनासि मनस्विवरा ॥ युव-शक्ति-चयो जनता हृदये नव शक्ति-चयो विलसेत् प्रसरेत् । वसुधाऽस्तु सुधालय-सौख्य-करी भरतावनिरस्तु मुदे प्रमुदे ॥