अक्षर आकार:

राष्ट्रिय जागरणम्

Rashtriya Jagaranam

राष्ट्रिय जागरणम्

(गीतिका) (भुजङ्गप्रयातम्) अये भारतीयाः ! यतध्वं यतध्वं सुखं शान्तिमिष्टा लभध्वं लभध्वम् । सुखं दुःखजातं सहध्वं सहध्वं विकासं प्रमोदं भजध्वं भजध्वम् ॥ १ इयं क्रान्तिरिष्टा समे भारतेऽपि प्रचारं प्रसारं भजेल्लोकहेतो । युवा बालको बालिका वृद्धवर्यो ददत्वात्मयोगं सदा देशहेतोः ॥ २ सदा संविधानस्य रक्षापराः स्युः स्वदेशाभिमानं जने जागृयाच्च । जने वर्धतामादरो राष्ट्रकेतौ नरो मोदमाला वहेद् राष्ट्रगीतौ ॥ ३ सदा देशरक्षा, सदाऽऽदर्श-रक्षा सदैवोच्च-भावाश्रया वृत्तिरिष्टा । विकासः प्रकाशो भवेद् ग्राम-मध्ये ज्वलेज्ज्ञान ज्योतिः समेषा मनःसु ॥ ४ भवेद् देशकार्ये सदा चित्त-योगं स्वदेशोन्नतौ स्यात् सदेवानुरागः । विकासस्य कार्य मनोयोजनं स्याद् दरिद्रातुराणां हितं प्रेप्सितं स्यात् ॥ ५ प्रभुत्वं स्वदेशस्य लक्ष्यं सदा स्याद् भवेदेकता राष्ट्रवृद्ध्ये जनेषु । अजस्रं वहेत् स्वाभिमानस्य धारा सदा प्रेरिता स्युर्जनाः देशभक्त्या ॥ ६ जने जागृयाद् भ्रातृभावो भवाय समत्वस्य भावोदयं स्यात् सुखाय । न धर्मो न भाषा न देशं प्रदेशो भवेद् भेदकारी, न च क्षोभकारी ॥ ७ यथैवादृता स्युर्नराः लोकमध्ये तथा योषितामादरं स्यादजस्रम् । न याने, न पाने, विवाहेऽन्यदा च स्त्रिया आदरे न्यूनता लक्षिता स्यात् ॥ ८ यथा संस्कृतिर्भारतीयाः प्रथेत यथा गौरवं भारतीयं तनोतु । विहाय स्वकं क्षुद्रभावः श्रमेण महत्त्वं प्रसार्यं भुव संस्कृतेश्च ॥ ९ न दैन्यस्य भावोदय स्याज्जनेषु क्षुधा-हीन-भावावलिश्च प्रसर्पेत् । विलापं क्वचिन्न श्रुतं स्याज्जनानां निवासाश्रयो वृत्ति-लाभार्थमेव ॥ १० विपत्तिः स्वदेशे यदैवाऽऽपतेत्तु यदाऽऽह्वानलेशोऽपि रक्षार्थम्मायात् । तदा सङ्गतैः सर्वमेवावमत्य नरैर्भारतीयैः सदा भाव्यमेव ॥ ११ दया-भाव-वृद्धिजने जीव-जाते गवादेर्विवृद्धि पशूनां सुरक्षा । नदीनां ह्रदानां वनानां नगानां सुरक्षा कृताः स्यात् पथामापणानाम् ॥ १२ विकासं व्रजेद् भावना देशभक्ते नराणां हितायेहितं स्यादजस्रम् । सुधारे रुचिर्ज्ञानवृद्धौ प्रवृत्तिः भवेद् दृष्टिकोणश्च विज्ञानमूलम् ॥ १३ न हिंसाश्रया वृत्तिरिष्टा जनेषु भवेत् स्नेह-भावोदयं सौख्यकारी । सदा सम्पदो रक्षिता स्युर्जनानां समाजाश्रया वा नरैराश्रिता वा ॥ १४ तथा स्याद् विकासो यथा लक्ष्यपूर्ति भवेद् राष्ट्रकार्ये, न रोधः क्वचित् स्यात् । समष्टेश्च व्यष्टेर्हितं स्यात् समानं सदोत्कर्षकारी विकासं श्रियः स्यात् ॥ १५ भवेद् राष्ट्रवृद्धिर्जनानां समृद्धिं सुखं शान्तिरिष्टा सदैव प्रथेत । सदा स्याच्च यूनां सुदृष्टिः प्रकर्षे गुणोच्छ्रायकार्ये समष्टेर्हिताय ॥ १६ यथाऽऽलस्यलेशो न व्याघातकारी भवेत् तादृशो मार्ग एवावलम्ब्य । क्रियाशीलकत्वं महत्त्वाभिधानं क्रियारोध एवात्मघाताभिधेयः ॥ १७ प्रवृत्तिर्नराणां भवेद् राष्ट्रकार्ये रुचिः स्याज्जनानां सुधारे विकासे । जनैराश्रितं स्यात्तु मार्गं प्रशस्तं सुखोदकं एवास्तु सर्वो विधिश्च ॥ १८ स्वदेशे रतिः संस्कृतौ संस्कृतत्वं सदा स्वाभिमानं महत्त्वं प्रकृष्टम् । सदाऽशाश्रयत्वं निराशाक्षयश्च गुणोत्कर्षहतोर्मुदाऽऽधेयमेव ॥ १९ स्वदेशस्य माहात्म्यमिष्टं भवेच्चेत् स्वदेहस्य त्यागो वरं देशहेतोः । स्वदेशाश्रया श्रीर्नृणां जीवनं च स्वदेशे समृद्धे सुखं सर्वमेव ॥ २०