अक्षर आकार:

राष्ट्रसन्देशः

Rashtra Sandeshah

राष्ट्रसन्देशः

(गीतिका) (प्रमाणिका वृत्तम्) विकासतां प्रकाशतां स्वदेश एष राजताम् । ज्वलत्प्रताप-रोचिषां दिगन्त-व्याप्त-कीर्तिभाक् ॥ विकासता०॥ स्फुरद्-दहत् त्विषा दहेद्, अराति-वृन्द-वाहिनीम् । स्वतन्त्र देश-भारतो विभा-रतो विभासताम् ॥ विकासता०॥ धरा प्रपीडिता रुपा, समस्त-आइग्ल शासकैः । हृता मृतेव चोज्झिता न सान्त्वना-ध्वनि श्रुतः ॥ विकासता०॥ विदेश-चोर-लुण्ठकैः, चिराय तापिता मही । स्वदेश-वीरमात्मजः स्व-रक्षणं प्रयाचते ॥ विकासता०॥ नहीदृशः क्वचित् सुखं यथा स्वमातृ-तर्पणम् । स्वमातृभूमि रक्षणं स्वदेश शक्तिपोषणम् ॥ विकासता०॥ स्वदेश-बन्धु पोषणं स्व-राष्ट्र-शत्रु-शोषणम् । स्वमातृभूमि-तोषणं सदा सुखं मुदावहम् ॥ विकसता०॥ यदीष्टमात्म गौरवं स्वदेश-मान-रक्षणम् । स्वदेश-केतु-सारणं तदा भजस्व मातरम् ॥ विकासता०॥ उपास्य क्रान्ति-पद्धतिं अपास्य दोष-संहतिम् । निरस्य दैन्य-दानवीं सृतिं श्रयस्व मानवीम् ॥ विकासता०॥ श्रमाश्रया सृति शुभा गुणावहा मति शुभा । गति शुभा सुखावहा कृति शुभा मुदावहा ॥ विकासता०॥ स्व-जीवनं समर्प्यतां स्वमातरं च रक्ष्यताम् । स्व-भारतं प्रपोष्यतां हुतात्मनश्च तोष्यताम् ॥ विकासता०॥