अक्षर आकार:

राष्ट्र रक्षा

Rashtra Raksha

राष्ट्र रक्षा

(गीतिका) (भुजङ्गप्रयातम्) स्व-देश-व्रते जीवनं येऽर्पयन्ति यशस्ते भवे शाश्वतं स्थापयन्ति । इयं भारती भू सदा देवपूज्या सदा रक्षणीया सदा सेवनीया ॥ स्वदेशस्य रक्षा विधौ ये प्रणांशः स्वरक्तस्य दानं श्रमस्यापि दानम् । चलं यच्च वित्तं क्षणध्वंसि वर्ष्म स्वदेशार्पितं जायते शाश्वतं तत् ॥ इदं जीवनं वृक्ष सस्योपमानं सदा जायते नाशमत्यन्तमेति । ध्रुवं तत् स्थिरं तत् चिरस्थायि चैव यदद्धाऽर्पितं देश-रक्षा-प्रयत्ने ॥ यशो ह्यक्षरं शाश्वतं चामृतं च तनुनश्वरा चञ्चला क्षीणयोगा । स्वदेशस्य रक्षाव्रते कीर्तिरेव यशश्चामृतं गौरव चानवद्यम् ॥ न जाता मृता वा कियन्तः पृथिव्यां कियन्तो न वा नाममात्रेण शिष्टाः । पर भूतले रोचिषा रोचमाना स्वदेश व्रता भान्ति भास्वत्प्रकाशा ॥ न चिन्तोर्चिता देहनाशस्य जातु सदा चिन्तनीया प्रिया मातृभूमिः । धरा मातृरूपा वयं पुत्रभूतां स्वमात्रे समर्प्यं धन जीवनं च ॥ धरा याचते ते बलिं नित्यमेव धरा याचते रक्तदानं पवित्रम् । अपत्यस्य शौर्येण दानेन नित्यं यशो मातृभूमे परा कोटिमेति ॥ स्वदेश-व्रता ये स्वदेहैरजस्रं बलिं मातृभूम्यैः ददत्यात्म-युक्ता । न तेषां भयं शस्त्रपातस्य शूले स्वयं निर्भयाः निर्जरान्ते धरण्याम् ॥ भवेद् भीरवं कातरां स्वार्थलिप्ता स्मृतिं यान्ति भूयः श्वपाकादिवत् ते । सुवीराः सुधीराः स्वदेशाभिमानाः स्मृतिं वारमेकं प्रयान्तीह शूराः ॥ यशो वै नृणां श्रेष्ठमेकं सदैव यशोऽर्थं नृणां जीवनं वित्तमेव । मुधा स्यं यशः किं कुरुध्वे जघन्यः ध्रुवं नाश-योगे परं देश हेतोः ॥