अक्षर आकार:

राष्ट्रप्रहरी

Rashtraprahari

राष्ट्रप्रहरी

(गीतिका) (भुजङ्गप्रयातवृतम्) अये राष्ट्रयोधाः ! अये वीरवर्याः ! अये छात्र-सङ्घर्ष-सेनाऽधिनाथाः । सदा सावधानाः सदा दत्तचित्ताः स्वदेशस्य रक्षा-कृतौ जागरूकाः ॥ अये०॥ इमे स्वार्थलीना नराः वित्तलुब्धाः, निजा स्वार्थसिद्धिं वरं मन्यमानाः । जनानां सदा शोषणे लीनचित्ताः, नराः पामरास्ते सदा ताडनीयाः ॥ अये०॥ धनं देशहेतोर्न स्वार्थस्य सिद्ध्यै तनुर्देशहेतोर्न भोगोपभुक्त्यै । कृतिर्देशहेतोर्न त्रासस्य बुद्ध्यै मनो देश चिन्ता निमग्नं न स्वैरम् ॥ अये०॥ इमे पापलीनाश्चरित्रेण हीना सदोत्कोचजीवाः मुधाऽऽहिण्डमानाः । धनैर्वा जनैर्वा स्व-स्वार्थावसक्ताः कुधा ताडनीयाः बहिष्कार-योग्याः ॥ भये०॥ युवा नेतृवर्गोऽथवा मन्त्रिवर्यो यदा स्वार्थमग्नश्चरित्रेण हीनः । स्वदेशस्य द्रोही नरो दैत्यरूपः स दण्ड्यः स वध्यः स न्यक्कारपात्रम् ॥ अये०॥ न यत्रास्ति देशे विधानं सुषुष्टं न वा न्याय-दण्ड-व्यवस्था सुपुष्टा । न चैवाऽनुशिष्टिः समाजे प्रदेशे न देशो विकासोन्नतिं कर्तुमर्हः ॥ अये०॥ सदा देशभक्तैः सदा जागरुकैः, स्वकर्म प्रवृत्तैः स्वधर्मैक-निष्ठैः । सदा सत्यनिष्ठे स्वदेहार्पणेस्तु, स्वदेशोन्नतिः शक्यते कर्तुमिष्टाः ॥ अये०॥ नरा जातिवादेऽथवा धर्मवादे, श्रिता सम्यवादेऽथवा भूतिवादे । कुटुम्बाश्रयाः हीनवृत्तापचाराः, इमे देश द्रुग्धाः सदा दण्डनीयाः ॥ अये०॥ इमे हीनवृत्ताः सदा कर्मचौराः, स्व-जात्यादिवादैर्विवादैक निष्ठाः । घनस्यैव गृध्राः कुकृत्याऽऽप्तवित्ताः, सदा शासनेन क्रुधा नाशनीयाः ॥ अये०॥ अये कर्मवीराः ! स्वकर्मैक-निष्ठाः सदा राष्ट्र-रक्षापराः जागरूकाः । भयं देशजं पारदेश्यं कुतो वा समग्रं समाप्य स्वदेहार्पणेन ॥ मये ॥