अक्षर आकार:

राष्ट्रकुसुमाञ्जलिः

Rashtra Kusumanjali

राष्ट्रकुसुमाञ्जलिः

(गीतिका) (मात्रासमक जाति) कुसुमाञ्जलिरयमुपवित-भावो देशभक्त-चरणेषु समप्य । करुणा मुदिता हुत-वर चित्तो देशभक्ति-शुभ भाव सनाथः ॥ कुसुमा०॥ निज-सुख-लाभ-दुःख-परिहीणैः माया-ममता-मोह विहीनैः । मातृभूमि-गुण-गरिमाऽऽकृष्टैः वीरैर्भाग्यवती वसुधेयम् ॥ कुसुमा०॥ येषां कृतिं ततिरद्य सुवासा कोटि-कोटि जन मानस- हासा । शक्ति-भक्ति-मति-बोधन-कर्त्री तेषां जनिरिह गौरव धर्त्री ॥ कुसुमा०॥ पाप-ताप-भय-शोषण-क्षुब्धा राग-रोप-जनद्वेष विमुग्धा । देशद्रोहिभिरतिशय-क्लिष्टा भारत-भूबलिवीरैस्नाता ॥ कुसुमा०॥ देश-दुःख-परिशोषित-गात्राः, भारत-दैन्य-कष्ट-सक्षुब्धा । स्वातन्त्र्यार्थ-समर्पित-देहाः, धन्यास्ते बलि-वीर-वदान्याः ॥ कुसुमा०॥ ताप-शोक-भय चिन्ता-मुक्ताः, भारत-जननी-ताप-प्रतप्ता । देशार्पित-निज-जीवन वित्ता धन्याः क्रान्ति-सुधा-रस-स्फीता ॥ कुसुमा०॥ येषां कृतिरिहि जीवन-दात्री गौरव-गाथा सुख-तति धात्री । स्वार्थ-नाशिकोद्बोधन-कर्त्री संशय-क्लेश-भ्रान्ति भय हर्त्री ॥ कुसुमा ॥ येषां कीर्तिः अविचल हृद्या देशवासिभि परमभिनन्द्या । शक्ति प्रेरणा स्रोतोरूपा जन-जन-मानस-मोहनरूपा ॥ कुसुमा०॥ क्रान्तिकारिभिर्जीवनदानैः शान्तिपरैः सर्वस्वप्रदानैः । वीरैः शौर्य-धैर्य-परिपुष्टा, भारत-जननी गुण-गण-तुष्टा ॥ कुसुमा०॥ भारतमातुर्गौरव-भूता, देशभक्ति-गुण-पावित चित्ता । तेषां चरण-युग्ममभिनन्द्यं तेषां चरितं सततं वन्द्यम् ॥ कुसुमा०॥