अक्षर आकार:

पुरुषार्थनिर्णयः

Purusharthanirnayah

पुरुषार्थनिर्णयः

पुरुषार्थदानदक्षं पुरुहूतप्रमुखनिर्जराराध्यम् । पुरुषार्थसिद्धयेऽहं पुरुषं कृष्णाद्यपिङ्गलं नौमि ॥ १॥ तत्र तावत्कः पुरुषार्थो नाम? न तावदनुकूलपुत्रमित्रकलत्रादिः; तदनित्यत्वस्य प्रत्यक्षसिद्धत्वात् । न च ``एतत्त्रयं जगति पुण्यकृतो लभन्ते'' इति तस्यापि सुकृतसाध्यत्वेन नित्यत्वमिति शङ्क्यं; न हि जलजन्यत्वसाम्येऽपि बुद्बुदतरङ्गफेनवारिजानां स्थिरत्वसाम्यमस्ति; तस्माद्धर्मार्ध- काममोक्षाश्चत्वारः पुरुषार्थाः । तत्र धर्मो नाम--आशुविनाशिनां विहितकर्मणां कालान्तरभाविफलजनकत्वान्यथानुपपत्त्या कल्प्यमानोऽदृष्टपदार्थविशेषः । तथा हि--यागगङ्गास्नानशिवपूजादीनां हविःप्रक्षेपण- गङ्गाजलमज्जनशिवलिङ्गादिषु पुष्पक्षीरादिसमर्पणादिरूपाणां यावत्कार्योत्पादास्थायित्वस्य सार्वलौकिकत्वात्तत्कल्पने तु फलाव्यवहितप्राक्क्षणवृत्तिस्वस्वव्यापारान्यतरकत्वरूपफल- जनकत्वस्य कालान्तरकृतकर्मणामपि सूपपादकत्वात् । अर्थो नाम-पूर्वोक्तधर्मानुकूलयागादिसाधनीभूतधनधान्यादिः । कामस्तु-उक्तधर्मजनककर्मसु प्रवर्तकः ``धर्मो मे भूयात्'' इतीच्छारूपः । न तु निषिद्धकर्मकारकः कामः, तस्य पुरुषार्थभावात्प्रत्युत पुरुषदुःखहेतुत्वात् । किञ्च, भगवद्गीतायां भगवानप्येवमाह-- ``धर्म्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ'' इति । मोक्षस्तु--तत्त्वज्ञानैकसाध्यः । तत्स्वरूपमुन्तरत्र वर्ण्यते ॥ अत्रेदं चिन्त्यते--चतुर्ष्वप्येतेषु कः परम इति । न च पुरुषार्थत्वाविशेषाच्चत्वारोऽपीमे समाना एवेति निश्चेतुं शक्याः । न हि मनुष्यत्वाविशेषेऽपि सर्वेऽपि मनुष्याः समाना उपलभ्यन्ते; कश्चित्प्रभुः, कश्चिद्भृत्यः, कश्चित्सुखी, कश्चिदुःखीति भेददर्शनात् । तस्मात्प्राप्तं पुरुषार्थत्वाविशेषेऽपि चिन्त्यमेतेषु पारम्यमिति । न चार्थकामौ परमौ, तयोर्धर्महेतुत्वेन धर्म एवोपक्षीणतया स्वतः पुरुषार्थत्वाभावात् । अत एव न धर्मोऽपि परमः पुमर्थः; तस्य स्वर्गादिसाधनत्वेनोपसर्जनत्वात् । तथा हि श्रुतिः -- ``ज्योतिष्टोमेन स्वर्गकामो यजेत'' ``वायव्यश्वेतमालभेत भूतिकामः'' इति स्वर्गादिसाधनत्वमाह धर्मस्य । न चेयं श्रुतिर्न ``धर्मस्य स्वर्गकारणत्वमाह,'' अपि तु ज्योतिष्टोमादेरिति वाच्यम् । यागादेर्धर्मव्यापारकत्वस्यावश्यकल्प्यतया धर्मस्य स्वर्गकारणताया धर्मिग्राहकमानसिद्धत्वात् । न चैतेषां त्रयाणां पुरुषार्थत्वमपि सम्भवति । तथा हि-- पुरुषार्थो नाम--वस्तुतः सुखम्, दुःखाभावो वा । तथा च लोकेऽनुभवः-- ``इष्टं मे भूयादनिष्टं मे मा भूत्'' इति । न चेमे त्रयः सुखं दुःखाभावो वा । तर्हि, कथमेतेषां पुरुषार्थकोटिप्रविष्टत्वमिति चेत्, तत्साधनत्वादिति ब्रूमः । यथा लाङ्गलस्य जीवनत्वाभावेऽपि जीवनसाधनत्वेन ``लाङ्गलं जीवनम्'' इति प्रयोगः, तद्वत्पुरुषार्थसाधनत्वेनैतेषु पुरुषार्थपदप्रयोगः । किञ्चैतेषामनित्यत्वादपि न परमपुरुषार्थत्वम् । तथा हि-अर्थकामयोस्तावत्प्रत्यक्षेणैवानित्यत्वम् । धर्मस्य त्वतीन्द्रियत्वेन श्रुत्या स्मृत्या चावगम्यते । तथा च श्रुतिः-- ``यद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते'' इति । स्मृतिश्च- ``क्षीणे पुण्ये मर्त्यलोकं विशन्ति'' इति । तर्हि कः परमपुरुषार्थ इति चेन्मोक्ष एवेत्यवेहि । तथा हि-- तस्य ``ब्रह्मविदाप्नोति परम्'' इत्यादिश्रुत्या सुखस्वरूपत्वस्य, ``तरति शोकमात्मवित्'' इत्याद्यया च दुःखनिवृत्तिरूपत्वस्य च प्रतिपादनात्स्वतः पुमर्थत्वम्, नित्यत्वं च ``न स पुनरावर्तते'' ``तेषां न पुनरावृत्तिः'' ``एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते'' इत्यादिश्रुतिभ्यः ॥ ``आब्रह्मभुवनाल्लोकाः पुनारावर्तिनोऽर्जुन ।'' ``मामुपेत्य पुनजन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥'' ``इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥'' ``यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।'' इत्यादिस्मृतिभ्यश्च । किञ्च, अनित्यविलक्षणत्वादपि नित्यत्वम् । लोक उत्पाद्यप्राप्यसंस्कार्यविकार्याणामनित्यत्वं दृष्टम् । न चासौ मोक्ष उत्पाद्यः; नित्यो हि मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते । नापि प्राप्यः, आत्मस्वरूपत्वेन नित्याप्तत्वात् । नापि संस्कार्यः, नित्यशुद्धनिरतिशयत्वान्मोक्षस्य । नापि विकार्यः, कूटस्थब्रह्मस्वरूपत्वान्मोक्षस्य । तस्मान्नित्यत्वात्स्वतः पुमर्थत्वाच्च मोक्ष एव परमपुरुषार्थः । न च ``अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्'' ``अपाम सोमममृता अभूम'' इत्यादिश्रुतिभिः कर्मफलस्यापि नित्यत्वप्रतिपादनात्कथं मोक्षस्यैव नित्यफलत्वमिति वाच्यम्; अस्याः श्रुतेः ``यत्कृतकं तदनित्यम्'' इति न्यायोपेतया ``तद्यथेह'' इत्यादिश्रुत्या बाधेन अत्रत्याक्षय्यामृतपदयोः आभूतसम्प्लवस्थायिस्थानपरत्वस्यैव वक्तव्यत्वात् । तथा च स्मृतिः--- ``आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते'' । इति । इत्थं हि व्यवस्था-श्रुतिस्मृत्योर्विरोधे ॥ंउसारेण स्मृतिर्नेया, श्रुत्योः परस्परं विरोधे न्यायोपेतश्रुत्यनुसारेण श्रुत्यन्तरं नेयमिति । तस्मान्मोक्ष एव नित्य इति सिद्धम् ॥ , मोक्षो नाम-सालोक्यसामीप्यसारूप्यसायुज्यकैवल्यभेदेन पञ्चविधः । ``तत्र सालोकव्यं तत्तदुपास्यदेवतावासस्थानभूतलोकप्राप्तिः । सामीप्यमुपास्यदेवतासमीपवर्तनम् । सारूप्यं देवतासमानाकारदेहप्राप्तिः । सायुज्यं सगुणस्य देवतारूपस्य अहङ्ग्रहेणोपासनां कुर्वतः उपास्य- देवतातादात्म्यम् । कैवल्यं तु सच्चिदानन्दनित्यशुद्धबुद्धमुक्तस्वभाव- प्रत्यगभिन्नकूटस्थनह्मस्वरूपेणावस्थानम् । इदमेवाविद्यानिवृत्तिपदेना- प्यभिधीयते । तथा चोक्तम्- ``अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । '' इति । ``निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।'' इति च । अपि च, ``तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः । निःशेषदुःखोऽभेदाच्च पुरुषार्थः परो मतः ॥'' इति । इयं कैवल्यरूपा मुक्तिरेव मुख्या । तथा च सूतसंहितायां स्वस्वरूपावस्थानमुक्तिं प्रकृत्य-- ``षड्भावविक्रियाहीना शुभाशुभविवर्जिता । सर्वद्वन्द्वविनिर्मुक्ता सत्यविज्ञानरूपिणी ॥ केवलं ब्रह्मरूपोक्ता सर्वदा सुखलक्षणा । न हेया नाप्युपादेया सर्वसम्बन्धवर्जिता ॥ न दृष्टा न श्रुता विष्णो न चास्वाद्या न तर्किता सर्वावरणनिर्मुक्ता न विज्ञेया निराश्रया ॥ वाच्यवाचकनिर्मुक्ता लक्ष्यलक्षणवर्जिता । सर्वेषां प्राणिनां साक्षादात्मभूता स्वयम्प्रभा ॥ प्रतिबन्धविनिर्मुक्ता सर्वदा परमार्थतः । अविचारदशायां तु प्रतिबद्धा स्वमायया ॥ एषैव परमा मुक्तिः प्रोक्ता वेदार्थवेदिभिः । अन्याश्च मुक्तयः सर्वा अपराः परिकीर्तिताः ॥ '' इति । न चान्यासु सालोक्यादिरूपासु कथं मुक्तिशब्दप्रयोग इति वाच्यम्; ताः प्राप्तानां पुनरावृत्त्यभावेन क्रमेण मुख्यमुक्तिदर्शनात्तासु मुक्तिशब्दोपचारः । तथा चोक्तम्-- ``ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यां ते महात्मानः प्रविशन्ति परं पदम् ॥'' इति । न चास्याः कूटस्थब्रह्मस्वरूपाया मुक्तेः स्वतःसिद्धतया तदर्थं मुमुक्षूणां गुरूपसदनविचारादिषु प्रवृत्तिर्न स्यादिति वाच्यम्; तस्याः स्वतःसिद्धत्वेऽपि विस्मृतकण्ठचामीकरन्यायेनाज्ञातत्वेन तत्प्राप्त्यै मुमुक्षूणां विचारादिषु प्रवृत्युपपत्तेः । विस्मृतकण्ठचामीकरन्यायस्त्वेवं-कश्चित्पुरुषः स्वकण्ठस्थमेव चामीकरं विस्मृत्य ``अहो मदीयश्चामीकरः कुत्र वा स्थापितः केन वापहृतः'' इतीतस्ततः पर्यटन्कुत्राप्यलब्ध्वा बहुधा शोचंस्तिष्ठति । अत्रान्तरे कश्चनागत्य चूते- ``तावके कण्ठ एव खलु चामीकरो वर्तते, किमर्थं भवान् महान्तं शोकमापन्नः'' इति । स तद्वाक्यश्रवणानन्तरं यथा स्वकण्ठस्थमेव चामीकरं ज्ञात्वा अलब्धस्य लाभादिव तुष्यतीति । अनेन न्यायेन स्वतऽसिद्धापीयं मुख्या मुक्तिरात्मस्वरूपा अज्ञातत्वेन अलब्धेव सती स्वलाभाय कारणमपेक्षत एवेति युक्ता तदर्थं मुमुक्षूणां प्रवृत्तिः । कारणं तु ज्ञानमेव; ``नान्यः पन्था विद्यतेऽयनाय'' ``तरति शोकमात्मवित्'' । ``नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्'' ब्रह्मविदाप्नोति परम् ``ब्रह्मविद्ब्रह्मैव भवति'' ``स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति'' इत्यादिश्रुतिभ्यः ॥ ``बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।'' ``ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥'' इत्यादिस्मृतिभ्यश्च । तज्ज्ञानं कीदृशमित्यपेक्षायां अपरोक्षानुभूतौ श्रीमद्भगवत्पादैः-- ``ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्विकारो निराकारो निरवद्योऽहमव्ययः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निरामयो निराभासो निर्विकल्पोऽहमाततः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ '' इति । ``तत्त्वमसि'' ``अहं ब्रह्मास्मि'' ``अयमात्मा ब्रह्म'' ``प्रज्ञानं ब्रह्म'' इति महावाक्यजन्याखण्डाकारवृत्त्यपरनामकम् । तत्प्राप्त्युपायस्तु श्रुतौ ``आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः'' इति, ``शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत्'' इत्यादिवाक्यैरुद्घुष्यते । पाद्मे शिवगीतायां च-- ``कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते । तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥'' इति श्रीरामेण पृष्टः सन् श्रीभगवानाह-- ``विरज्य सर्वभूतेभ्य आविरिञ्चिपदावधि । घृणां वितत्य सर्वत्र पुत्रमित्रादिकेष्वपि ॥ श्रद्धालुर्मुक्तिशास्त्रेषु वेदान्तज्ञानलिप्सया । उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ सेवाभिः परितोष्यैनं चिरकालं समाहितः । सर्ववेदान्तवाक्यार्थं श‍ृणुयात्सुसमाहितः ॥ सर्ववेदान्तवाक्यानां मयि तात्पर्यनिश्चयम् । श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ॥ लोहमण्यादिदृष्टान्तयुक्तिभिर्यद्विचिन्तनम् । तदेव मननं प्राहुर्वाक्यार्थस्योपबृंहणम् ॥ निर्मोहो निरहङ्कारः समः सङ्गविवर्जितः । सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् । सर्वकर्मक्षयवशात्साक्षात्कारोऽपि चात्मनः ॥ कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ।'' इति । तस्माद्ब्रह्मज्ञानैकसाध्यः स्वस्वरूपावस्थानलक्षणो मोक्ष एव परमः पुरुषार्थ इति सर्वं चतुरश्रम् ॥ पुरुषार्थनिर्णयोऽयं गुरुवरकृपया मया व्यरचि । वीक्ष्य प्रयान्तु मोदं विद्वांसो वीतमत्सरास्तमिमम् ॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः पुरुषार्थनिर्णयः समाप्तः ।