अक्षर आकार:

पुरः पुरः प्रयाहि

Purah Purah Prayahi

पुरः पुरः प्रयाहि

पुरः पुरः प्रयाहि रे (प्रगच्छ रे) प्रगाय मातृवन्दनम् । स्वजन्मभूमिरक्षणे प्रदेहि वीर जीवनम् ॥ प्रयाहि देशगौरव स्वराष्ट्रकेतुमुद्धरन् पदं पदं प्रगच्छ रे विजेतृभावमुद्वहन् ॥ शिरोऽस्तु ते समुन्नतं तवास्तु मा क्वचिद् भयम् । प्रभुस्तवास्ति पार्श्वतः सुशस्त्रसज्जितः स्वयम् ॥ पुरः पुरः प्रधाव रे बलं तवाद्य वर्धताम् । यतः प्रभुस्ततो जयः ततः सुवीर युध्यताम् ॥ रणे धृतिः सुकौशलं प्रवर्धतां मनोबलम् । जयस्तवास्ति निश्चितः कुरु स्वधर्मपालनम् ॥ - नरेन्द्रः