अक्षर आकार:

पुष्कराष्टकम्

puShkarAShTakam

पुष्कराष्टकम्

श्रीगणेशाय नमः ॥ श्रियायुतं त्रिदेहतापपापराशिनाशकं मुनीन्द्रसिद्धसाध्यदेवदानवैरभिष्टुतम् । तटेस्ति यज्ञपर्वतस्य मुक्तिदं सुखाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ॥ १॥ सदार्यमासशुष्कपञ्चवासरे वरागतं तदन्यथान्तरिक्षगं सुतन्त्रभावनानुगम् । तदम्बुपानमज्जनं दृशां सदामृताकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ॥ २॥ त्रिपुष्कर त्रिपुष्कर त्रिपुष्करेति संस्मरेत्- स दूरदेशगोऽपि यस्तदङ्गपापनाशनम् । प्रपन्नदुःखभञ्जनं सुरञ्जनं सुधाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ॥ ३॥ मृकण्डुमङ्कणौ पुलस्त्यकण्वपर्वतासिता अगस्त्यभार्गवौ दधीचिनारदौ शुकादयः। सपद्मतीर्थपावनैकद्दष्ट्यो दयाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ॥ ४॥ सदा पितामहेक्षितं वराहविष्णुनेक्षितं तथाऽमरेश्वरेक्षितं सुरासुरैः समीक्षितम् । इहैव भुक्तिमुक्तिदं प्रजाकरं घनाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ॥ ५॥ त्रिदण्डिदण्डिब्रह्मचारितापसैः सुसेवितं पुरार्धचन्द्रप्राप्तदेवनन्दिकेश्वराभिधैः । सवैद्यनाथनीलकण्ठसेवितं सुधाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ॥ ६॥ सुपञ्चधा सरस्वती विराजते यदन्त्तरे तथैकयोजनायतं विभाति तीर्थनायकम् । अनेकदैवपैत्रतीर्थसागरं रसाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ॥ ७॥ यमादिसंयुतो नरस्त्रिपुष्करं निमज्जति पितामहश्च माधवोप्युमाधवः प्रसन्नताम् । प्रयाति तत्पदं ददात्ययत्नतो गुणाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ॥ ८॥ इदं हि पुष्कराष्टकं सुनीतिनीरजाश्रितं स्थितं मदीयमानसे कदापि माऽपगच्छतु । त्रिसन्ध्यमापठन्ति ये त्रिपुष्कराष्टकं नराः प्रदीप्तदेहभूषणा भवन्ति मेशकिङ्कराः ॥ ९॥ इति शञ्कराचार्यविरचितं श्रीपुष्कराष्टकं समाप्तम् ॥