अक्षर आकार:

प्रेमावहति मे श्रावणानाम्

premAvahati me shrAvaNAnAm

प्रेमावहति मे श्रावणानाम्

प्रेमावहति मे श्रावणानां धारासारवृष्टेः प्लावनशतम् । यौवनवासनायाः रिक्तकूलं पूर्णयति तून्मत्ततोयम् ॥ निर्जनस्तब्धतमोऽभिभूय उच्छलामानयति जीवनधाराम् । अपूर्ववर्षायास्तरंगराशिः नृत्यति सृष्टेर्रागेण ॥ विद्युत्क्षिप्रे तव नयने मौनवचोभिर्मादयतः । निश्वासो मे प्राप्याश्वासं तृप्तेः परिधिं न मन्यते ॥ प्रीतिदिग्वलये (च) गानं प्रगतेर्- निर्जितवज्रगर्जघोषं । तृष्णया वृष्टेः मृगिते कालवाते दृष्टिर्मदीयानुधावति लक्ष्यम् ॥ मूलरचना- डाॅ भूपेन हाजरिका संस्कृतरूपान्तरः- रञ्जन बेजवरुवा, असम