अक्षर आकार:

प्रबुद्धात्मन् गाय गीतम्

Prabuddhatman Gaya Gitam

प्रबुद्धात्मन् गाय गीतम्

प्रबुद्धात्मन् गाय गीतं राष्ट्रभक्तिनिबोधकं श्रावयन् जागरय लोकं निश्चलं जडतावृतं राष्ट्रमेतद् राजतां, संवर्धतामभिवर्धतां विश्वगुरुरिति मानितं सत् जगति सकले शोभताम् ॥ धवलचरितं स्फटिकविमलं राष्ट्रमिदमतिविश्रुतं इतश्चोत्था तत्त्वगङ्गा जगदपावयदनुदिनं यो हि विज्ञानादिविविधज्ञानदक्षो गुरुरभूत् देश एष स्तूयतां, निध्यायतां पुनरर्च्यताम् ॥ मोहमायाजालतन्तून् छिन्धि सुज्ञानासिना क्रोधकामान् मत्सरादीन् मर्दय त्वं निर्दयं आत्मबलमासाद्य दृढतामेत्य याहि निरन्तरं मातृभूस्समुपास्यतां, सा संस्कृता गीस्सेव्यताम् ॥ सर्वलोकहितैषिता समचित्तता भवतो भवेत् अन्तरायान् ध्वंसयन् त्वं दोर्बलं सञ्चिनु महत् धर्मनिष्ठः कर्मनिरतो जनहितं कुरु सन्ततं परहितं सञ्चिन्त्यतां, ननु दीनजनता सेव्यताम् ॥ - जनार्दन हेगडे