अक्षर आकार:

प्रभो तं भारतं रक्ष

Prabho, Tam Bharatam Raksha

प्रभो तं भारतं रक्ष

(गीतिका) प्रभो । दुखाब्धि-सन्त्रात । सदेम भारतं रक्ष । क्षुधा-शोकाग्नि-सन्तप्त, सदेम भारतं रक्ष ॥ प्रभो०॥ सदा विश्वस्य यज्ज्योति सदा यः प्रेरणा-स्रोतः । भुवो मार्गोपदेष्टा यः, सदा तं भारतं रक्ष ॥ प्रभो०॥ श्रुतीनां यत्र सन्नाद यतीनां ज्ञान-संवाद । मुनीना दर्शनोत्कर्षं सदा तं भारतं रक्ष ॥ प्रभो०॥ भवे बन्धुत्वं शिक्षाया, सदैवाग्रेसरो योऽभूत् । सदाऽध्यात्मोपदेष्टा यो मुदा तं भारतं रक्ष ॥ प्रभो०॥ धरेयं त्रास-सन्त्रस्ता क्षुधा-रोगाऽऽधि-सन्ध्वस्ता । अशिक्षा ध्वान्त-सङ्ग्रस्ता, सुधा-वर्षे सदा रक्ष ॥ प्रभो०॥ सदा यः क्रान्ति-दूतानां निनादैः पूर्यमाणोऽभूत् । सदा क्रान्तेर्निनादेन सुदेशं भारतं रक्ष ॥ प्रभो०॥ न शाम्येत् क्रान्ति-सन्देश न रुन्ध्याद् राष्ट्र-सन्देश । न नश्येत् चेतनोत्साह, तथैत भारतं रक्ष ॥ प्रभो०॥ धरेयं पाविता पूतैः, स्व-रक्तैः क्रान्तिदूतैस्तैः । यशोमाला सदा विन्देत्, तथैत भारतं रक्ष ॥ प्रभो०॥ ज्वलेद् विज्ञान-सञ्ज्योति प्रणश्येदाधि-दुःखाग्निः । चरेत् क्रान्तेश्च दावाग्निः, तथैत भारतं रक्ष ॥ प्रभो०॥ ऋषीणां, ज्योतिषां पूत । हुतात्म-त्याग-सम्पुष्टम् । सुधीनां कीर्तिं-सृजुष्ट वरेण्य भारतं रक्ष ॥ प्रभो ॥