अक्षर आकार:

श्रीप्राचीनपापनाशक्षेत्रस्तुतिः

Shri Prachinapapanashakshetrastutih

श्रीप्राचीनपापनाशक्षेत्रस्तुतिः

अधुनातनपापानामदृढत्वान्नाशनं भवत्येव । इतरेभ्यस्तीर्थेभ्यः प्राचीनानां तु रूढमूलानाम् ॥ १॥ पापानां हि विनाशनमस्मादेव प्रजायते तस्मात् । प्राचीनपापनाशनमित्याख्याजायतास्य तीर्थस्य ॥ २॥ यद्वद्रोगस्याल्पकालप्रवृत्तस्याराद्भूयान्नाशनं भेषजेन । सामान्येन प्रायशो हीह लोके नैवानल्पात्कालतः सञ्चितस्य ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीप्राचीनपापनाशक्षेत्रस्तुतिः सम्पूर्णा ।