अक्षर आकार:

पौराण प्रयोग दर्पणः

Paurana Prayoga Darpana

पौराण प्रयोग दर्पणः

अथाचमनम् । केशवाय नमः, नारायणाय नमः, माधवाय नमः, इति त्रिरपः पिबेत् । अथ पवित्रधारणम् । स्नाने दाने जपे होमे स्वाध्याये पितृकर्मणि । पवित्रं तु करे कुर्यात् सौवर्णं राजतं तु वा ॥ कुशपाणिः सदा तिष्ठेन्नरो दम्भविवर्जितः । स नित्यं हन्ति पापानि तूलराशिमिवानिलः ॥ पवित्रधारको यश्च न स पापेन लिप्यते । पवित्रयुतहस्तस्य विद्रवन्ति दिशो दिश ॥ जपहोमहरा ह्येते असुरादिव्यरूपिणः । पवित्रकृत हस्तस्य विद्रवन्ति दिशो दिश ॥ इति पवित्रं धृत्वा ह्रीं इति प्राणानायम्य तिलकं धारयेत् । मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । शत्रूणां बुद्धिनाशोस्तु मित्राणामुदयस्तथा ॥ तिलकं कुङ्कुमेनैव सदा मङ्गलकर्मणि । कारयित्वा सुमतिमान्न श्वेतचन्दनं मृदा ॥ इति ॥ अथ गणपतिवन्दनम् । सिद्‍ध्या बुद्ध्या समेतं गुणगणनिचयं सर्वसङ्कष्टदाहं, यक्षैरक्षोभि रीशप्रभृतिभिरमलैर्दानवैर्मानवैश्च । सर्वारम्भेभिवन्द्याङ्घ्रिकमलममलं भालचन्द्रं गजास्यं, रक्ताभं पद्ममालाधरमभयकरं विघ्नराजं भजेहम् ॥ इति महागणपतिं नत्वा श्री गणेशाय नमः । श्री सरस्वत्यै नमः । श्री गुरुभ्यो नमः । अविघ्नमस्तु गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धुकावेरि कलशे सन्निधिं कुरु ॥ गङ्गाद्यास्सर्वतीर्थदेवतास्सन्निहितास्सन्तु । इति तीर्थान्यावाह्य, देशकालौ सङ्कीर्त्य, करिष्यमाण कर्माङ्गत्वेन शरीरशुद्‍ध्यर्थं तीर्थस्नानं गव्यस्नानं तत्प्राशनं उपवीतधारणं च करिष्ये ॥ इति सङ्कल्पयेत् । अथ तीर्थस्नानम् । देव देव जगन्नाथ शङ्खचक्रगदाधर । आज्ञां देहि च मे विष्णो तवतीर्थावगाहने ॥ नमः पुण्यजले देशे नमः सागरगामिनि । नर्मदे सिन्धु कावेरी जलेस्मिन् सन्न्निधिं कुरु ॥ सागरः स्वननिर्घोषदण्डहस्तसुरान्तक । जगत्स्रष्टर्जगन्मर्दिन्नमामि त्वां सुरेश्वर ॥ तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ उत्तिष्ठतु महाभूता ये भूता भूमिपालकाः । भूतानामविरोधेन स्नानकर्म समारभे ॥ विष्णुपादाग्रसम्भूते गङ्गे त्रिपथगामिनि । धर्मद्रवेति विख्याता पापं मे हर जाह्नवी ॥ जाह्नवी सर्वतः पुण्या ब्रह्महत्याघहारिणी । वाराणस्यां विशेषेण गङ्गाह्युत्तरवाहिनी ॥ मज्जन्ति मुनयः सर्वे त्वमेकः किं न मज्जसि । मुक्तिस्त्वद्दर्शनाद्देवी न जाने स्नानजं फलम् ॥ प्रभाते वहते गङ्गा मध्याह्ने तु सरस्वती । अपराह्णेन्यतीर्थानि रात्रौ वहति नर्मदा ॥ विष्णुपादाग्रसम्भूते गङ्गेत्रिपथगामिनि । धर्मद्रवेति विख्याता पापं मे हर जाह्नवी ॥ कुशमूले स्थितो ब्रह्मा कुशमध्ये जनार्दनः । कुशाग्रे शङ्करो देवः तेन नश्यतु पातकम् ॥ इति ॥ अथ गव्यस्नानम् । गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । सर्वपापविशुद्‍ध्यर्थं पञ्चगव्यं पुनातु माम् ॥ इति ॥ अथ पञ्चगव्यप्राशनम् । यत्वगस्थिगतं पापं देहे तिष्ठति मामके । प्राशनात्पञ्चगव्यस्य दहत्वग्निरिवेन्धनम् ॥ ह्रीं इति प्राशयेत् । अथोपवीतधारणम् । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ इत्युपवीतं धृत्वा, आचम्य, प्राणानायम्य, प्रधानसङ्कल्पं कुर्यात् । सुमुखश्चेत्यादिदेशकालकीर्तनान्ते अमुक कर्म करिष्ये ॥ तदादौ निर्विघ्नार्थं गणपतिपूजनं, क्षेत्रपालवास्तोष्पति प्रार्थनं, शान्त्यर्थं पुष्ट्यर्थं तुष्ट्यर्थं वृद्‍ध्यर्थं च ब्राह्मणैः सह पुण्याहवाचनं च करिष्ये ॥ इति ॥ अथ गणपतिपूजनम् । श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः, क्षीराब्धौ रत्नदीपैः सुरतरुविमले रत्नसिंहासनस्थम् । दोर्भिः पाशाङ्कुशेष्टाभयधृतविशदं चन्द्रमौलिं त्रिणेत्रं, ध्यायेच्छान्त्यर्थमीशं गणपति ममलं श्रीसमेतं प्रसन्नम् ॥ हे हेरम्ब त्वमेह्येहि अम्बिकात्र्यम्बकात्मज । सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभ पितः प्रभो ॥ नागास्य नागहारत्वं गणराज चतुर्भुज । भूषितः स्वायुधैः र्दिव्यैः पाशां कुशपरश्वधैः ॥ आवाहयामि पूजार्थं रक्षार्थं च मम क्रतौ । इहागत्य गृहाण त्वं पूजां रक्ष क्रतुं च मे ॥ श्री महागणपतये नमः श्री महागणपतिमावाहयामि । इत्यावाह्य, पूजयेत् । तत्र स्नाने विशेषः - कावेरी नर्मदा वेणी तुङ्गभद्रा सरस्वती । गङ्गा च यमुना तोयं मया स्नानार्थमर्पितम् ॥ तथा दूर्वार्पणे - दूर्वाङ्कुरान् सुहरितान् अमृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ॥ नैवेद्ये - सत्पात्रसिद्धं सुहविः विविधानेकभक्षणम् । निवेदयामि देवाय सानुगाय गृहाण तत् ॥ नीराजनेपि - कर्पूरकं महाराज रम्भोद्भूतं च दीपकम् । मङ्गलार्थं महीपाल सङ्गृहाण सुरेश्वर ॥ मन्त्रपुष्पसमर्पणे \- त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति वरप्रदेति । विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेशवरदो भव नित्यमेव ॥ नमस्कारे तथा प्रार्थने - नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः । नमस्ते रुद्ररूपाय करिरूपाय ते नमः ॥ विश्वरूप स्वरूपाय नमस्ते ब्रह्मचारिणे । भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥ लम्बोदरनमस्तुभ्यं सततं मोदकप्रिय । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ अनेन पूजनेन गणपतिः प्रीयताम् । इति ॥ अत्रैव क्षेत्रपालं वास्तोष्पतिं च सम्प्रार्थयेत् । अथ कलशस्थापनम् अथ भूमिं स्पृशेत् \- विश्वाधारासिधरिणी शेषनागोपरिस्थिता । उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥ इति ॥ अथ कलशं \- हेमरूप्यादि सम्भूतं ताम्रजं सुदृढं नवम् । कलशं धौतकल्माषं छिद्रवर्णविवर्जितम् ॥ इति ॥ अथ जलपूरणं \- जीवनं सर्वजीवानां पावनं पावनात्मकम् । बीजं सर्वौषधीनां च तज्जलं पूरयाम्यहम् ॥ इति ॥ अथ वस्त्राच्छादनं \- सूत्रं कार्पाससम्भूतं ब्रह्मणा निर्मितं पुरा । येन बद्धं जगत्सर्वं वेष्टनं कलशस्य च ॥ इति ॥ अथ ओषध्यः \- देवेभ्यः पूर्वतो जाता देवेभ्यः स्त्रियुगं पुरा । शतं तनुश्च या बभ्रू जीवनं जीवनाय च ॥ इति ॥ अथ दूर्वाः \- दूर्वेह्यमृतसम्पन्ने शतमूले शतां कुरे । शतं पातकसम्पत्ती शतमायुष्यवर्धिनी ॥ इति ॥ अथ पल्लवान् \- अश्वत्थोदुम्बरप्लक्षच्यूतन्यग्रोधपल्लवाः । पञ्चभगा इति प्रोक्ताः सर्वकर्मसु शोभनाः ॥ इति ॥ अथ पुष्पाणि \- विविधं पुष्पसञ्जातं देवानां प्रीतिवर्धनम् । क्षिप्रं यत्कार्यसम्भूतं कलशे प्रक्षिपाम्यहम् ॥ इति ॥ अथ मृत्तिकाः \- अश्वस्थानाद्गजास्थानाद्वल्मीकात्सङ्गमाद्ध्रदात् । राजद्वाराच्च गो गोष्ठान्मृदमानीय निक्षिपेत् ॥ इति ॥ अथ रत्नानि \- कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् । एतानि पञ्चरत्नानि कलशे प्रक्षिपाम्यहम् ॥ इति ॥ अथ पूर्णपात्रापिधानं \- पिधानं सर्ववस्तूनां सर्वकार्यार्थ साधनम् । सम्पूर्णः कलशो येन पात्रं तत्कलशोपरि ॥ इति ॥ अथ वरुणपूजनम् नमो नमस्ते स्फटिकप्रभाय, सुश्वेतहाराय सुमङ्गलाय । सुपाशहस्ताय झषासनाय, जलाधिनाथाय नमो नमस्ते ॥ पाशहस्तं च वरुणमम्भसापतिमीश्वरम् । आवाहयामि यज्ञेस्मिन् पूजेयं प्रतिगृह्यताम् ॥ इत्यावाह्य, पूजयेत् । तत्र स्नाने विशेषः - परमानन्दबोधाब्धिनिमग्ननिजमूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयामि जलाधिप ॥ नैवेद्ये - सत्पात्रसिद्धं सुहविः विविधानेकभक्षणम् । निवेदयामि देवाय सानुगाय गृहाण तत् ॥ नीराजनेपि - कर्पूरकं महाराज रम्भोद्भूतं च दीपकम् । मङ्गलार्थं महीपाल सङ्गृहाण सुरेश्वर ॥ नमस्कारे - नमो नमस्ते स्फटिकप्रभाय, सुश्वेतहाराय सुमङ्गलाय । सुपाशहस्ताय झषासनाय, जलाधिनाथाय नमो नमस्ते ॥ तत्र प्रार्थना - शिवः स्वयं त्वमेवासि विष्णुत्वं च प्रजापतिः । आदित्यावसवो रुद्राः विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेपि यतः कामफलप्रदाः । त्वत्प्रसादिमं यज्ञं कर्तुमीहेजलोद्भव ॥ पाशपाणे नमस्तुभ्यं पद्मिनी जीवनायक । पुण्याहवाचनं यावत्तावत्त्वं संस्थितो भव ॥ इति ॥ अनेन पूजनेन वरुणः प्रीयताम् । ततः कलशं स्पृष्ट्वा देवता भावयेत् । कलशस्य मुखे विष्णुः --- कलशे सन्निधिं कुरु ॥ इति ॥ अथ यजमानः मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । इत्याशिषो गृहीत्वा, ब्राह्मणहस्ते जलं ददाति । ह्रीं आपः शिवा आपः सन्तु । ह्रीं गन्धाः सुगन्धाः पान्तु । ह्रीं अक्षताः अस्त्वक्षतमरिष्टं च । ह्रीं सुमनसः सौमनस्यमस्तु । ह्रीं दक्षिणाः स्वस्ति दक्षिणाः पान्तु । सन्तु पञ्चोपचाराः । शान्तिरस्तु ॥ कलशं स्पृष्ट्वा वदति । दीर्घा नागा नद्यो गिरयस्त्रीणिविष्णुपदानि च । तेनायुः प्रमाणेन पुण्यं पुण्याहमस्तु मे ॥ इति ॥ पुण्यं पुण्याहं दीर्घमायुरस्तु । पत्न्यान्वारब्धयजमानदक्षिणबाहुनान्वारब्धः कलशधारको मनः समाधीयताम् । इति वदति । ब्राह्मणाः -समाहितमनसस्स्मः ॥ इति प्रतिवदन्ति । प्रसीदन्तु भवन्तः प्रसन्नाः स्मः ॥ शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु । इत्युक्तं प्रतिब्रूयात् ॥ ब्राह्म्यं पुण्यं महर्यच्च सृष्ट्युत्पादनकारकम् । वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- पुण्यं पुण्याहं भवन्तो ब्रुवन्तु । पुण्यं पुण्याहम् ।इति प्रतिवचनम् । स्वस्त्यस्तु या विनाशाख्या पुण्यकल्याणवृद्धिदा । विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- स्वस्त्यस्त्विति भवन्तो ब्रुवन्तु । आयुष्मते स्वस्ति ।इति प्रतिवचनम् । सागरस्य यथावृद्धिर् महालक्ष्म्यादिभिः कृता । सम्पूर्णा सुप्रभा वाचा तां च ऋद्धिं ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- ऋद्धिं भवन्तो ब्रुवन्तु । कर्म ऋद्‍ध्यताम् ।इति प्रतिवचनम् । समुद्रमथनाज्जाता जगदानन्दकारिका । हरिप्रिया च माङ्गल्य तां श्रियं च ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- श्रीरस्त्विति भवन्तो ब्रुवन्तु । अस्तु श्रीः ।इति प्रतिवचनम् । पृथिव्यामुधृता यान्तु यत्कल्याणं पुराकृतम् । ऋषिभिः सिद्धगन्धर्वैः तत्कल्याणं ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- कल्याणं भवन्तो ब्रुवन्तु । अस्तु कल्याणम् ।इति प्रतिवचनम् । अथ कलश जलधारां करोति । शुक्राङ्गारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगा सर्वे ग्रहाः प्रीयन्ताम् । कर्माङ्गदेवताः प्रीयन्ताम् । शकुननिमित्तस्वप्नाः शिवा भवन्तु । आयुषोभिवृद्धिरस्तु आयुषोभि वृद्धिरस्तु । शिवं शिवमस्तु । सर्वग्रहसंस्थित्यमस्तु । सत्या एता आशिषः सन्तु । बहिर्देशे अरिष्टनिरसनमस्तु । इति किञ्चित्कलशोदकमीशान्ये निनीय, यत्पापं तत्प्रतिहतमस्तु । यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमहरहरभिवृद्धिरस्तु । उत्तरोत्तराः क्रिया श्शुभास्सम्पद्यन्ताम् । तिथिकरणमुहूर्तनक्षत्रदिग्देवताः प्रीयन्ताम् ॥ अथ कलशजलमन्योन्यं संस्राव्य तज्जलं पात्रान्तरे निनीय, तत्र हिरण्यं निधाय, दर्भैर्ब्राह्मणाः सपत्नीकं यजमानं संस्कार्यं च प्रोक्षेयुः । तत्काले पत्नी वामभागे उपविशति ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथः तथा सङ्कर्षणो विभुः ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयायते । आखण्डलोग्निर्भगवान् यमो वै निरृतिस्तथा ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथाशिवः । ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जावपुः शान्तिः कान्तिस्तुष्टिश्च मातरः ॥ एतास्तामभिषिञ्चन्तु देवपत्न्यः समागताः । आदित्यश्चन्द्रमा भौम बुध जीव सितार्कजाः ॥ ग्रहास्त्वामभिषिञ्चन्तु राहुकेतुश्च तर्पिताः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । ऋषयो मुनयो गावो देवमातर एव च ॥ देवपत्न्योद्रुमानागा द्यैत्याश्चाप्सरसां गणाः । अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥ औषधानि च रत्नानि कालस्यावयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदानदाः ॥ एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये । सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् ॥ तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ॥ भगमिन्द्रश्च वायुश्च भगं सप्तऋषयो दधुः । यत्ते केशेषु दौर्भाग्यं सीमन्ते यश्च मूर्धनि ॥ ललाटे कर्णयो रक्ष्णोरापो निघ्नन्तु ते सदा । अमृताभिषेकोस्तु ॥ अथ गृहं \- वास्तोष्पते भूमिशयान देव, पाहि त्वमस्मान् सकलादरिष्टात् । चतुष्पदां च द्विपदां शिवं नो, भवत्वभीक्ष्णं तव सुप्रसादात् ॥ इति प्रोक्ष्य, शिवं शिवं शिवं इति शेषजलमप्सु विसृजेत् । अनेन पुण्याहवाचनकर्मणा श्री परमेश्वरः प्रीयतां इति समर्प्य, श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् । आयुष्यं तेज आरोग्यं देहि मे जलनायक ॥ इति प्रसादं स्वीकृत्य, यान्तु देवगणाः सर्वे पूजामादाय मत्कृताम् । इष्टकाम्यार्थसिद्‍ध्यर्थं पुनरागमनाय च ॥ इति विसृजेत् ॥ ततः पुण्याहवाचनफल समृद्ध्यर्थं अस्मै आचार्याय यथाशक्ति फलहिरण्य तण्डुलं सम्प्रददे न मम । इति त्यजेत् ॥ आचार्यः पुण्याहवाचन फलसमृद्धिरस्तु इति प्रतिवदति । अथ कृच्छ्राचरणम् करिष्यमाण अमुक कर्मणि मम देहमनोविशुद्धिपूर्वकं अधिकारसिद्‍ध्यर्थं कृच्छ्रप्रत्याम्नायत्वेन हिरण्यदानं करिष्ये । इति सङ्कल्प्य, नमः सकलकल्याणदायिने ब्रह्मरूपिणे । सदसे सर्वपूज्याय दुष्कृतारण्यवह्नये ॥ इति प्रदक्षिणं कृत्वा ``ह्रीं हिरण्य गर्भगर्भस्थं'' इति पठित्वा, मम देहमनो विशुद्धिपूर्वकं करिष्यमाण कर्मणि अधिकारसिद्‍ध्यर्थं कृच्छ्रप्रत्याम्नायत्वेन परिषदुपविष्टेभ्यः ब्राह्मणेभ्यः यथाशक्तिदक्षिणां विभज्य, दातुमहमुत्सृजे । इति त्यजेत् ॥ सर्वे धर्मविवेक्तारो गोप्तारः सकला द्विजाः । कुर्वन्तु मम देहस्य संशुद्धिं गतकिल्बिषाः ॥ पूज्यैः कृतपवित्रोहं भविष्याम्यनघस्तथा । प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥ पुरा कृतं महाघोरं ज्ञाताज्ञातं च किल्बिषम् । जन्मतोद्य दिनं यावत्तस्मात्पापात्पुनन्तु माम् ॥ अशेषे हे परिषत् ! भवत्पादमूले समर्पितामिमामल्पीयसीमपि दक्षिणां यथोक्तदक्षिणामिव स्वीकृत्य मम देहमनोविशुद्धिपूर्वकं करिष्यमाण कर्मणि अधिकारसिद्धिरस्त्विति-अनुगृहाण ॥ इति परिषदं नमस्कृत्य अनुज्ञां सम्पादयेत् । अनेन कृच्छ्राचरणेन श्री परमेश्वरः प्रीयताम् ॥ इति ॥ प्रधान सङ्कल्पान्ते ऋत्विजो वरयेत् । यथा- अमुक कर्माङ्गत्वेन आचार्यादि ऋत्विजो वरयिष्ये । इति सङ्कल्प्य ब्राह्मणान्नमस्कृत्य, आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यागेस्मिन्नाचार्यो भव सुव्रत ॥ इति स्व दक्षिणपाणिना तस्य दक्षिणपाणिं स्पृष्ट्वा वरयित्वा, भवन्तः सर्वधर्मज्ञाः सर्वधर्मभृतां वराः । वितते मम यज्ञेस्मिन् ऋत्विजो भवत द्विजाः ॥ इति ऋत्विजः अथ गृहीत-कुसुमाञ्जलिना यजमानेन ब्राह्मण प्रार्थना - ब्राह्मणास्सन्तु मे शास्ताः पापात्पान्तु समाहिताः । देवानां चैव दातारः पातारः सर्वदेहिनाम् ॥ जपयज्ञैः तथा होमैर्दानैश्च विविधैः शुभैः । देवानां च पितृणां च तृप्त्यर्थं याचकाः स्मृताः ॥ येषां देहे स्थिता देवाः पावयन्ति जगत्त्रयम् । ते मां रक्षन्तु सततं जपयज्ञे व्यवस्थिताः ॥ अदुष्टभाषणास्सन्तु मा सन्तु परनिन्दकाः । ममापि नियमाह्येते भवन्तु भवतामपि ॥ इति ॥ अथ सर्वे ऋत्विजः तत्तत्कर्म विधिवदनुष्ठाय प्रधान कर्मान्ते पूर्णाहुतिमाचरन्ति । अथ पूर्णाहुतिः । इदं फलं मया देव स्थापितं तु हुताशन । तेन मे सुफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ इति फलं समर्प्य, आचार्यः स्रुचि द्वादशवारं चतुर्वारं वा स्रुवेणाज्यमादाय द्वाभ्यां शङ्खमुद्रया गृहीत्वा यजमानान्वारब्धस्तिष्ठन् पूर्णाहुतिं जुहुयात् । तत्र मन्त्राः - देवा यज्ञभुजो ये ते साङ्गं कुर्वन्त्विमां क्रतुम् । रक्षत्वस्मान् सदा यज्ञे तेभ्य आज्याहुतिं नमः ॥ यो विष्णुस्त्रिपदैः सर्वमाक्रम्य भुवनत्रयम् । अधितिष्ठति सर्वात्मा तस्मा आज्याहुतिं नमः ॥ त्वं यज्ञपुरुषः साक्षादग्ने त्वं यज्ञ एव च । वैगुण्यदोषशान्त्यर्थं तुभ्यमाज्याहुतिं नमः ॥ एह्येहि सर्वामर हव्यवाह मुनिप्रवर्यैरभितोभिजुष्ट । तेजोवता लोकगणेन सार्धं ममाध्वरं पाहि कवे नमस्ते ॥ कल्याणदात्रीं कल्याणीं सर्वकामप्रपूरणीम् । हवनस्य फलप्राप्त्यै पूर्णाहुत्यै नमो नमः ॥ दिव्यवस्त्रा दिव्यदेहा नानालङ्कारभूषिताः । वसोर्धारा महाभागा वरदाः सन्तु मे सदा ॥ शुद्धस्फटिकसङ्काशा दिव्यायुधकरावृताः । एकभोगाः साक्षसूत्राः वसोर्धारा नता वयम् ॥ भो अग्ने! हव्यवाहन! वैश्वानर! सर्वदेवमय! सर्वदेवतामुख! जातवेदस्तनूनपात्कृशानो हुतभुग्विभावसो बृहद्भानो हिरण्यरेतः सप्तार्चिर्दमनश्चित्रभानो ! ज्वलनपावकेळाह्वयाय तुभ्यमिमां सर्वकर्मप्रपूरणीं पूर्णाहुतिं ददामि । एनां गृहाण । गृहाणास्माकमनामयमनिशं कुरु कुर्विष्टं देहि देहि सर्वतोस्मान्दुरितदुरिष्टात्पाहि पाहि भगवन्नमस्ते नमस्ते । ह्रीं अग्नये नमः । अग्नये इदं न मम ॥ पूर्णाहुतिमुहूर्तः सुमुहूर्तोस्त्विति भवन्तो ब्रुवन्तु । सुमुहूर्तोस्तु । इति प्रतिवचनम् ॥ इति ॥ अथ कर्मान्ते श्रेयोग्रहणम् ॥ आचार्यः स्वस्त्यस्तु दीर्घमयुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । भवन्नियोगेन मया एभिर्ब्राह्मणैस्सह यत्कृतं अमुक कर्म तदुत्पन्नं यच्छ्रेयस्तुभ्यं सम्प्रददे । तेन त्वं आयुष्मान् आरोग्यवान् पुत्रपौत्रवान् धनधान्यवान् भव । इत्युक्त्वा यजमानाञ्जलौ अक्षतजलं निक्षिपेत् । ततो यजमानः ब्राह्मणानभ्यर्च्य, भूयसीं दक्षिणां ददाति । सन्तुष्टास्ते आशिषमाशास्ते । आशीर्वादमन्त्राः मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव ॥ आरोग्यं सविता तनोतु भवतामिन्दुर्यशो निर्मलं, भूतिं भूमिसुतस्सुधांशुतनयः प्रज्ञां गुरुर्गौरवम् । काव्यः कोमलवाग्विलासमतुलं मन्दो मुदं सर्वदा, राहुर्बाहुबलं विरोधशमनं केतुः कुलस्योन्नतिम् ॥ दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति । नरनारीनृपाणां च भवेद्दुस्स्वप्ननाशनम् ॥ ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् । ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ॥ ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः । न च चोरभयं, न च सर्पभयं, न च व्याघ्रभयं, न च मृत्युभयं, यस्यापमृत्युर्न च मृत्युः । स सर्वं लभते । स सर्वं जयते ॥ यस्त्वन्निमित्तेन मया कृतोऽयं स पुण्यसारस्तव दीयते मया । तस्मात्वदीयं परिगृह्यसारं सपुण्यवान् पुण्यसमृद्धिमान् भव ॥ ह्रीं श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते । धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ इति पौराण प्रयोग दर्पणः समाप्तः ॥ सम्पादकः परमेश्वर पुट्टनमने