अक्षर आकार:

पतिव्रतायाः श्रीपतिमङ्गलस्तोत्रम्

Shri Patimangalastotram

पतिव्रतायाः श्रीपतिमङ्गलस्तोत्रम्

श्रीगणेशाय नमः ॥ ॐ नमः कान्ताय भर्त्रे च शिवचन्द्रस्वरूपिणे । नमः शान्ताय दान्ताय सर्वदेवाश्रयाय च ॥ १॥ नमो ब्रह्मण्यरूपाय सतीप्राणपराय च । नमस्याय च पूज्याय हृदाधाराय ते नमः ॥ २॥ पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च । ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे ॥ ३॥ पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः । पतिश्च निर्गुणाधारी ब्रह्मरूप नमोऽस्तु ते ॥ ४॥ क्षमस्व भगवन् दोषं ज्ञानाज्ञानकृतं च यत् । पत्नीबन्धो दयासिन्धो दासीदोषं क्षमस्व मे ॥ ५॥ इदं स्तोत्रं महापुण्यं सृष्ट्यादौ यन्मया कृतम् । सरस्वत्या च धरया गङ्गया च पुरा व्रजे ॥ ६॥ सावित्र्या च कृतं पूर्वं ब्रह्मणे चापि नित्यशः । पार्वत्या च कृतं भक्त्या कैलासे शङ्कराय च ॥ ७॥ मुनीनां च सुराणां च पत्नीभिस्तु कृतं पुरा । पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् ॥ ८॥ इदं स्तोत्रं महापुण्यं या श‍ृणोति पतिव्रता । नरोऽन्यो वापि नारी वा लभते सर्वाञ्छितम् ॥ ९॥ अपुत्रो लभते पुत्रं निर्धनो लभते धनम् । रोगी च मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ १०॥ पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत् । फलं च सर्वतपसां व्रतानां च व्रजेश्वर ॥ ११॥ इदं स्तुत्वा नमस्कृत्वा भुङ्क्ते सा तदनुज्ञया । एष पतिव्रताधर्म एष धर्मः सनातनः ॥ १२॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णनन्दसंवादे पतिव्रतामाहात्म्ये पतिमङ्गलस्तोत्रं सम्पूर्णम् ।