अक्षर आकार:

परमेश्वरस्तुतिसारस्तोत्रम्

Parameshvarastutisarastotram

परमेश्वरस्तुतिसारस्तोत्रम्

श्रीगणेशाय नमः ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्यामलमयं प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः । बहिस्तेभ्यः कृत्वा स्वपदशरणं मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम् ॥ १॥ न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि च मां त्वयानेके गुप्ता व्यसनमिति तेऽस्ति श्रुतिपथे । अतो मामुद्धर्तुं घटय मयि दृष्टिं सुविमलां न रिक्तां मे याच्ञां स्वजनरत कर्तुं भव हरे ॥ २॥ कदाहं भोः स्वामिन्नियतमनसा त्वां हृदि भजन्नभद्रे संसारे ह्यनवरतदुःखेऽति विरसः । लभेयं तां शान्तिं परममुनिभिर्या ह्यधिगता दयां कृत्वा मे त्वं वितर परशान्तिं भवहर ॥ ३॥ विधाता चेद्विश्वं सृजति सृजतां मे शुभकृतिं विधुश्चेत्पाता माऽवतु जनिमृतेर्दुःखजलधेः । हरः संहर्ता संहरतु मम शोकं सजनकं यथाहं मुक्तः स्यां किमपि तु तथा ते विदधताम् ॥ ४॥ अहं ब्रह्मानन्दस्त्वमपि च तदाख्यः सुविदितः स्ततोऽहं भिन्नो नो कथमपि भवत्तः श्रुतिदृशा । तथा चेदानीं त्वं त्वयि मम विभेदस्य जननीं स्वमायां संवार्य प्रभव मम भेदं निरसितुम् ॥ ५॥ कदाहं हे स्वामिन् जनिमृतिमयं दुःखनिबिडं भवं हित्वा सत्येऽनवरतसुखे स्वात्मवपुषि । रमे तस्मिन्नित्यं निखिलमुनयो ब्रह्मरसिका रमन्ते यस्मिंस्ते कृतसकलकृत्या यतिवराः ॥ ६॥ पठन्त्येके शास्त्रं निगममपरे तत्परतया यजन्त्यन्ये त्वां वै ददति च पदार्थांस्तव हितान् । अहं तु स्वामिंस्ते शरणमगमं संसृतिभयाद्यथा ते प्रीतिः स्याद्धितकर तथा त्वं कुरु विभो ॥ ७॥ अहं ज्योतिर्नित्यो गगनमिव तृप्तः सुखमयः श्रुतौ सिद्धोऽद्वैतः कथमपि न भिन्नोऽस्मि विधुतः । इति ज्ञाते तत्त्वे भवति च परः संसृतिलयात् अतस्तत्त्वज्ञानं मयि सुघटयेस्त्वं हि कृपया ॥ ८॥ अनादौ संसारे जनिमृतिमये दुःखितमना मुमुक्षुस्सन् कश्चिद्भजति हि गुरुं ज्ञानपरमम् । ततो ज्ञात्वा यं वै तुदति न पुनः क्लेशनिवहैः भजेऽहं तं देवं भवति च परो यस्य भजनात् ॥ ९॥ विवेको वैराग्यो न च शमदमाद्याः षडपरे मुमुक्षा मे नास्ति प्रभवति कथं ज्ञानममलम् । अतः संसाराब्धेस्तरणसरणिं मामुपदिशन् स्वबुद्धिं श्रौतीं मे वितर भगवंस्त्वं हि कृपया ॥ १०॥ कदाहं भो स्वामिन्निगममतिवेद्यं शिवमयं चिदानन्दं नित्यं श्रुतिहृतपरिच्छेदनिवहम् । त्वमर्थाभिन्नं त्वामभिरम इहात्मन्यविरतं मनीषामेवं मे सफलय वदान्य स्वकृपया ॥ ११॥ यदर्थं सर्वं वै प्रियमसुधनादि प्रभवति स्वयं नान्यार्थो हि प्रिय इति च वेदे प्रविदितम् । स आत्मा सर्वेषां जनिमृतिमतां वेदगदितः ततोऽहं तं वेद्यं सततममलं यामि शरणं ॥ १२॥ मया त्यक्तं सर्वं कथमपि भवेत्स्वात्मनि मतिः त्वदीया माया मां प्रति तु विपरीतं कृतवती । ततोऽहं किं कुर्यां न हि मम मतिः क्वापि चरति दयां कृत्वा नाथ स्वपदशरणं देहि शिवदम् ॥ १३॥ नगा दैत्याः कीशा भवजलधिपारं हि गमितास्त्वया चान्ये स्वामिन्किमिति समयेऽस्मिञ्छयितवान् । न हेलां त्वं कुर्यास्त्वयि निहितसर्वे मयि विभो न हि त्वाऽहं हित्वा कमपि शरणं चान्यमगमम् ॥ १४॥ अनन्ताद्या विज्ञानगुणजलधेस्तेऽन्तमगमन्नतः पारं यायात्तव गुणगणानां कथमयम् । गृणन्यावद्धित्वा जनिमृतिहरं याति परमां गतिं योगिप्राप्यामिति मनसि बुद्ध्वाहमनवम् ॥ १५॥ इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्दविरचितं परमेश्वरस्तुतिसारस्तोत्रम् सम्पूर्णम् ॥