अक्षर आकार:

पठत संस्कृतम्

Pathata Samskritam

पठत संस्कृतम्

पठत संस्कृतम्, वदत संस्कृतं लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥ ज्ञानवैभवं वेदवाङ्मयं लसति यत्र भवभयापहारि मुनिभिरार्जितम् । कीर्तिरार्जिता यस्य प्रणयनात् व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥ १॥ स्थानमूर्जितं यस्य मन्वते वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् । यद्विना जना नैव जानते भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥ २॥ जयतु संस्कृतम्, संस्कृतिस्तथा संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् । जयतु संस्कृतम्, जयतु मनुकुलं जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥ ३॥ - मञ्जुनाथशर्मा