अक्षर आकार:

पूर्णविजयसङ्कल्पोऽस्माकम्

Purnavijayasankalpoasmakam

पूर्णविजयसङ्कल्पोऽस्माकम्

पूर्णविजयसङ्कल्पोऽस्माकं, सततपरिश्रमशीलवताम् । आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥ वन्दे मातृभुवं वन्दे, वन्दे जगदम्बां वन्दे ॥ पुण्यपुरातनदेशोऽस्माकं मानवतार्चनसक्तिमतां प्रवहति पावनसंस्कृतिगङ्गा किल्बिषजातमपाददति । सकलविश्वमङ्गलसंरचने जुहोति सर्वोऽप्यात्मानं आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥ परमो मन्त्रः समरसता नः शक्तिसम्भृतं राष्ट्रमिदम् । पूर्वजगौरवगाथास्माकं मार्गदर्शिका प्रेरिका भविष्यपथमुज्ज्वलमाधातुं शक्तिं सञ्चिनुमो नियतं आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥ मातृभूमिराराध्येयं नो गतिरस्माकं सैव परा । ईशकार्यमिदमेवास्माकं जीवितैकसङ्कल्पनं सज्जननिर्मितकार्यपथेऽस्मिन् ननु यामो वयमनवरतं आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥