अक्षर आकार:

पाठयेम संस्कृतम्

Pathayema Samskritam

पाठयेम संस्कृतम्

पाठयेम संस्कृतं जगति सर्वमानवान् । प्रापयेम भारतं सपदि परमवैभवम् ॥ व्यक्तियोजकत्वमेव नायकत्वलक्षणं धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनं स्नेह-शक्ति-शील-शौर्य-देशभक्ति-भूषितं साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥ हिन्दुबन्धुमेलनेन सर्वदोषनाशनं उच्चनीचजातिराज्य-भेदभाववारणं सामरस्यरक्षणेन शान्तिपूर्णजीवनं कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥ जीवनस्य कार्यमेव राष्ट्रकर्मसाधना सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना व्यक्तिरस्तु वर्तिकेति मामकीनभावना साधितास्तु माधवस्य विश्वविजयकामना ॥