अक्षर आकार:

श्रीन्यासदशकम्

shrInyAsadashakam

श्रीन्यासदशकम्

॥ श्रीः ॥ श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ अहं मद्रक्षण भरो मद्रक्षण फलं तथा । न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत्बुधः ॥ १॥ न्यस्याम्यकिञ्चनः श्रीमननुकूलोऽन्यवर्जितः । विश्वास प्रार्थना पूर्वमात्मरक्षा भरं त्वयि ॥ २॥ स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्त स्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३॥ श्रीमन्नभीष्ट वरद त्वामस्मि शरणं गतः । एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४॥ त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येक प्रयोजनम् । निषिद्धकाम्यरहितं कुरू मां नित्य किङ्करम् ॥ ५॥ देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव । नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्श्व माम् ॥ ६॥ मां मदीयं च निखिलं चेतनाचेतनात्मकम् । स्वकैङ्कर्योपकरणं वरद स्वीकुरू स्वयम् ॥ ७॥ त्वदेक रक्ष्यस्य मम त्वमेव करुणाकर । न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८॥ अकृत्यानां च करणं कृत्यानां वर्जनं च मे । क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९॥ श्रीमान्नियत पञ्चाङ्गं मद्रक्षण भरार्पणम् । अचीकरत्स्वयं स्वस्मिनतोऽहमिह निर्भरः ॥ १०॥ ॥ इति श्रीन्यासदशकम् समाप्तम् ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥