अक्षर आकार:

नवयोजनासाफल्यम्

Navayojana Saphalyam

नवयोजनासाफल्यम्

(द्रुतविलम्बितम्) सुखद-सिद्धिकरं नवयोजनं दिशतु भारत-भू-वलये सुखम् । अनुदिनं जनता जन-ताप-ह स्वकृतिभिश्च समर्थनमेधयेत् ॥ इदमभेद्य-तमस्तति-नाशकं दुरित-दुष्कृत-दैन्य-निवारकम् । सुकृत शान्ति-सुधारस-वर्षकं जयतु सन्ततमेव नियोजनम् ॥ वसन-भोजन-पेय-समुच्चयो भवन-भूति-निवास-सुखोच्चय । कृषि-समुन्नति-राष्ट्र-गुणोच्छ्रयो वसतु भारत-भू-जनताऽऽलये ॥ नव-नवोद्यम-शक्ति-प्रदोद्यमोऽ- नवरतं वसु वृद्धि-करः श्रमम् । सततमात्म हिताय श्रमाश्रयो दिशति राम सुखौघ समेधितम् ॥ कृषिकृतौ नलकूप-समाश्रयं प्रतिदिशं तनुते कृषि-वर्धनम् । हरितिमा हरते कृषकाऽऽवले सकल-दुःखततिं सुख-साधने ॥ भवन-हीन-जनैर्भवनं कृतं अवनि-हीन-नरैरवनि श्रिता । वसन-हीन-नृभिर्वसनं घृतं कृषि-विहीन-नरैः कृषिभूर्वृता ॥ प्रतिविशं नगरेषु सुखोच्चय प्रतिपदं सुषमा श्रमिणा गृहे । भवन भोजन-सौख्य समुच्छ्रयोः वसन वास-मुखं तनुते हितम् ॥ नव-विधान-समाश्रयणेन यद् हितमिदं विहितं हित काम्यया । ऋणज-बन्धन-ग्रस्त-जनावलिः सुखद-मुक्तिमहो लभतेतराम् ॥ धनिवरा धन सङ्ग्रहमेव ये हितधिया व्यदधुर्दुरितावहम् । सकलमेव तु तद्धन-सङ्ग्रहं अपहृतं नृ-हिताय प्रशासकैः ॥ निखिल-ग्रामचयेऽद्य विराजते विपुल विद्युदुपस्कर-सङ्ग्रह । कृषिज धान्यततिवसनावलिं नव-विकासज-सौख्य-समुच्चय ॥ सुखविधा विविधा नगरेषु च प्रतिपदं वितनोति सुखश्रियम् । सरणि-नीर-प्रकाश-गृहाश्रया कतिविधा सुविधा नहि लम्भिता ॥ सततमद्य विलोक्यत एव यत् प्रशमिता जन-ताप-करी कृतिः । बटुजने नगरे न पुरेऽपि च क्वचिद-शान्ति-ततिस्तनुते पदम् ॥ बटुजने वितताऽभिरुचिर्गुणेः श्रमचये रुचिरा हितधी श्रिता । जन हिताय समाज-सुखाय ते श्रममवेक्ष्य हितं दधते शिवम् ॥ पठन पाठन-साधन सङ्ग्रहे हितततिं तनुतेऽत्र प्रशासनम् । बटुजनस्य च शिक्षक-संहते दिशति शासनमद्य सुखावलिम् ॥ गुणधि-गान्धि महात्मभिराश्रिता भरत भू-विषये रुचिरा स्थितिः । सुखमहो स हि स्वप्न-समुच्चय सफलतामिह याति सुखावह ॥ प्रतिदिनं यदुपैत्युपयोगिता । तदिह वस्तु नियन्त्रित-मूल्यकम् । न सहतेऽर्ध-विवृद्धिमथः क्वचिद् अनय-वारण-दारुण शासनम् ॥ कृषक-कर्मणि ये नियतं रताः, धरणिमापुरिमे कृपि-कर्मणे । वितरतीह प्रशासन-सूत्रकं जलमलं विमलं प्रवरं-बीजम् ॥ लयमुपैति कुरीति-प्रथाऽखिला प्रशममेति दिवं गमनं क्षुधा । सुखदमेत्यनुशासन-जालकं उदयमेति च भारत-गौरवम् ॥ प्रतिदिशं परिवर्तनमीक्ष्यते प्रतिगृहं धन धान्य-समुच्चय । प्रतिजनं जनता हित लालसा प्रतिपलं प्रगति सुख-साधने ॥ वरद-योजन-कार्यमिदं मुदे सुख-समुन्नति शान्ति-हितावहम् । जन-मनः सु दधद् नवचेतना सकललोक-समर्थनमावहेत् ॥