अक्षर आकार:

नक्षत्रमालिका

Nakshatramalika

नक्षत्रमालिका

श्रीमदभिरामवरगुरुभिरनुगृहीता श्रीरस्तु । श्रीमते हयग्रीवायनमः । श्रीमते रामानुजाय नमः ॥ अस्मासु वत्सलतया कृपया च भूयः स्वेच्छावतीर्णमि(व) ह सौम्यवरं मुनीन्द्रम् । आचार्यपौत्रमभिरामवराभिधानं अस्मद्गुरुं परमकारुणिकं नमामि ॥ श्रीमान् पराङ्कुशमुनिर्जीयात् यज्ज्ञानमुद्रया । नेन्द्रियाश्वयुजो नॄणां नित्यं विषयवीथयः ॥ १॥ यदुरसि भरणीया स्रग्विकसितवकुलानद्धा । स जयति महिमा नाथो मुररिपुपदसक्तो नः ॥ २॥ नन्ताऽनन्ताङ्घ्रिनलिनयुग्मे कर्ता लोकार्तिकबलनानाम् । भद्राय द्राविडनिगमानां द्रष्टा पुष्टाय वकुलभृत्स्यात् ॥ ३॥ स्यादेव सा मे फणितिश्शठारेः ययोदितोच्चैस्सरणिर्जनानाम् । आरोहिणी नाप्यवरोहिणी हि वेदोदिता तु द्वयमभ्युपैति ॥ ४॥ तिलकमाह न काचिदपि श्रुतौ त्रिजतामृगशीर्षसमुत्थिता । स्फुटतरं वकुलाभरणीयवाक् पुरुषमादिमशेषपदैरपि ॥ ५॥ पित्रादिस्सकलविधोऽपि बन्धुवर्गः यस्यासीत्सरसिजवासिनीसहायः । आविस्स्युर्घनकरुणारसावसेकैरार्द्रा मे वकुलभृतः कटाक्षपाताः ॥ ६॥ तामाश्रयामि करुणां वकुलाभिरामां याऽसौ पुनर्वसुमतीवलयेऽवतीर्णा । प्रज्ञादृशोन्मिषितया प्रथितानुभावा ज्योतिः परं यदनिदं तदिदं चकार ॥ ७॥ रचितवति रमाया नायकस्याङ्घ्रिपुष्यत्- प्रणयरससुधाब्धिस्रोतसि स्वैरगाहम् । प्रभवति कलिघर्मप्रावृषेण्याम्बुवाहे वकुलधरमुनीन्द्रे तापवार्ता कथं नः ॥ ८॥ नमज्जनस्य चित्तभित्तिभक्तिचित्रतूलिका भवाहिवीर्यभञ्जने नरेन्द्रमन्त्रयन्त्रणा । प्रपन्नलोककैरवप्रसन्नचारुचन्द्रिका शठारिहस्तमुद्रिका हठाद्धुनोतु मे तमः ॥ ९॥ मनस्स्फटिकदर्पणप्रतिफलत्परब्रह्मणः प्रदर्शनमिवाचरन् प्रथितबोधमुद्राङ्कितः । सतामभयशंसिता भवभयाभितप्तात्मनामघानि शमयेत नः शठरिपोरवामः करः ॥ १०॥ रमयतु शठशत्रुरत्युन्नताचारयुक्तैर्जनैः अवनतपदपद्मयुग्मोऽनुकम्पामृताम्भोनिधिः । बहुविधकृतपूर्वफल्गुन्यगाचारचिन्ताकुलं हृदयमसदृशात्मपादारविन्दानुषङ्गान्मम ॥ ११॥ मग्नं मानस! मास्म भूः शठरिपोरव्याजसिद्धा कृपा नौका काचन नाविकोऽपि स पुनस्सन्तारकग्रामणीः । एतेनोत्तर फल्गुनीरसपरिक्लिष्टोपभोगोर्मिकं दुःखावर्तदुरन्तपारगमनं संसारवाराकरम् ॥ १२॥ रत्नदीपिकायमानहस्तमुद्रिकाकृतत्रयीगिरीन्द्र- कन्दरान्तरालगाढरूढरूढिमन्निधानसूचनेन । द्राविडागमोपगीतिमूलसेकशीतवीतनिद्रपत्र- दिव्यतिन्त्रिणीसमीपगेन नाथवानहं पराङ्कुशेन ॥ १३॥ नत्या नत्यागकारी क्षणमपि चिदचित्त्रयकामेयकामे छन्दश्छन्दस्वरूपे महसि कमलया भासमानेऽसमाने । श्रेयः श्रेयस्विसङ्घैः परिचयसुरभिः कैसराणां सराणां पातात्पाताद्भवाब्धौ शठरिपुरिह नो वीक्षणेन क्षणेन ॥ १४॥ नप्रपत्तिवर्त्मनःप्रवर्तनापदानवासनानुसारि नव्यपेतसर्वदाजलाशयान्वयं कथं समं सरोजम् । स्वातिकामियोगिवृन्दचित्तपद्मबद्धसौहृदानुरक्त- रूपयोश्शठारिपादयोर्युगेन सन्नतार्तिभञ्जनेन ॥ १५॥ नत्वा यां कुसुमायुधेषुधिरुचिव्याघातमातन्वतीं शेमुष्या महतामहायि तरुणीजङ्घासु जङ्घालता । विस्तीर्णच्छविशाखया शठरिपोर्वृत्तानुपूर्वीजुषा जङ्घाकल्पतरुश्रिया सुरभितञ्चिन्तावनं मामकम् ॥ १६॥ कनदवयवलोलशोभाभिधानापगास्रोतसः समुदितगुरुबुद्बुदाकारसन्देहसन्दायिनोः । ककुदधिगतमित्रभावं स्वभावाद्युगं जानुनोः मम हृदि शठवैरिनाम्नो मुनीशस्य सन्दीव्यतु ॥ १७॥ तुलासरणिसीमनि प्रथितरूपया हस्तिनां करण करभेण वा कदलिकाप्रकाण्डेन वा । तथोपरि च पश्यतां नयनबन्धनज्येष्ठया चमत्कृतिमती मतिश्शठरिपूरुलक्ष्म्या मम ॥ १८॥ महःप्ररोहमञ्जरीमनोज्ञरत्नमेखला- कलापपुष्पिता कटीतटीपटी शठद्विषः । उरस्स्रवत्प्रभाझरीनिपातनिम्ननाभिका- ऽवटोत्थफेनमण्डलीवितर्कमूलमेव नः ॥ १९॥ नयनसुभगनाभीमुद्दिशन्ती शठारेः सर इति परिभाषा ढौकते सार्थकत्वम् । सततमितरथा नः संहता नेत्रमीनाः कथमिह विहरेयुः कौतुकोद्रेकयुक्ताः ॥ २०॥ तां मध्यदेशसुषमामवलोकयामि रोमावलित्रिवलिकारुचिरां शठारेः । रेखोत्तरा यदुपमामधिकाभिलाषा ढौकेत वा यदि न वा वटपत्रशोभा ॥ २१॥ भासा न व्यतिभिदुरीभवन्ति भृङ्गा हारस्थादुरसि हरिन्मणेश्शठारेः । आरूढा वकुलमयीं स्रजं सुगन्धिं शब्देन श्रवणसुखेन यान्ति भेदम् ॥ २२॥ दमवतः कुरुते मदनोद्धतान् सुघटयत्यबुधान् बुधनिष्ठया । प्रथितमुद्रमनिद्रसरोरुहप्रणयि पाणितलं शठजिन्मुनेः ॥ २३॥ नेह संसरणरोगसंहृतिः जायते शतभिषक्चिकित्सया । अन्तरेण शठवैरिकन्धरालम्बमानवकुलस्रजां रजः ॥ २४॥ जन्मध्वंसं दिशति जनानां वक्त्रं दीप्रोष्ठपदमनोज्ञम् । मन्दस्मेरं मधुरकटाक्षं सुभ्रूलेखं सुभगकपोलम् ॥ २५॥ लसति हि भजतां भद्रोत्तरपदकरणारूढम् । शठरिपुमकुटं भासा परिहृतदुरितध्वान्तम् ॥ २६॥ अन्तरेण शठारातिं कस्संसारेऽवतीह नः । तदहं हृदये नित्यं निदधे तद्वपुःश्रियम् ॥ २७॥ वाचिकी वरिवस्या मे तारकामालिकात्मिका । पराङ्कुशपदाब्जेन परिष्कारवती भवेत् ॥ २८॥ इति नक्षत्रमालिका समाप्ता ।