अक्षर आकार:

मुनिवरविकसित

Munivaravikasita

मुनिवरविकसित

मुनिवरविकसितकविवरविलसित मञ्जुलमञ्जूषा, सुन्दरसुरभाषा । अयि मातस्तव पोषणक्षमता मम वचनातीता, सुन्दरसुरभाषा ॥ वेदव्यास-वाल्मीकि-मुनीनां कालिदास-बाणादिकवीनाम् । पौराणिक-सामान्य-जनानां जीवनस्य आशा, सुन्दरसुरभाषा ॥ १॥ श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे । गति-मति-प्रेरक-काव्यविशारदे तव संस्कृतिरेषा, सुन्दरसुरभाषा ॥ २॥ नवरस-रुचिरालङ्कृति-धारा वेदविषय-वेदान्त-विचारा । वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायां, सुन्दरसुरभाषा ॥ ३॥ - नारायणभट्टः