अक्षर आकार:

मुम्बापुरीविश्वविद्यालयगीतं

Mumbai University Song in Sanskrit

मुम्बापुरीविश्वविद्यालयगीतं

इदं सुन्दरं मन्दिरं शारदाया मुम्बापुरीविश्वविद्यालयम् । कलाशास्त्रवाणिज्यशाखाधिरूढा अमूढा विमुक्ता विहङ्गा वयम् ॥ १॥ श‍ृण्वन्तु सर्वे दृढ निश्चयम् ॥ धृ ॥ सत्यं वदामो धर्मं चरामो नयामो नृणां दुःखभारं लयम् । स्वकार्ये रतानां सदा जागृतानां भवेत्किं भविष्येऽपि कस्मात् भयम् ॥ २॥ श‍ृण्वन्तु सर्वे दृढ निश्चयम् । युवा स्यात् बलिष्ठो युवा स्यात् गरिष्ठो युवा ध्येयनिष्ठोऽपि भूयात् स्वयम् । यदि स्यात् युवा राष्ट्रकर्तव्यनिष्ठः सम्मानयेत् तं हि लोकत्रयम् ॥ ३॥ श‍ृण्वन्तु सर्वे दृढ निश्चयम् । वन्दामहे भारतं पूजनीयं स्वदेशात् परं नास्ति देवालयम् । अत्रैव सर्वे प्रतिष्ठापयामो ममत्वेन सार्धं समत्वं नयम् ॥ ४॥ श‍ृण्वन्तु सर्वे दृढ निश्चयम् । कवी - श्री। वसन्त बापट सङ्गीत - श्री। प्रभाकर पण्डित