अक्षर आकार:

मोहनाष्टकम्

Eight Verses Praising Mahatma Gandhi mohanadAsa aShTakam

मोहनाष्टकम्

रोगैः समाकुले देशे पापे वृद्धिङ्गते तथा परैर्गृहीत सर्वस्वे जने निर्धनतां गते ॥ १॥ ममायं देश इत्येवं भावेऽप्याङ्ग्लैर्विनाशिते गान्धी महाशयो लोकं रक्षितुं जनिमग्रहीत् ॥ २॥ कृष्णेन यत्कृतं कर्म यत्कृतं गौतमेन च तदेव मोहनः कर्तुमुधुक्तो वर्ततेऽधुना ॥ ३॥ अर्थान्धैः परिपीडितान्गतबलान्दीनाञ्जनानुद्धरन् तप्त्वा तीव्रतमं तपः परहितं कर्तुं सदा सोद्यमः । अल्पाकल्पवृतो विकल्परहितः सङ्कल्पशक्त्यायुतः जीयाद्भारतवर्षभक्तप्रवरो गान्धीः सदा शुद्धधीः ॥ ४॥ भारतोद्धरणार्थं यो जातो जगति धर्मवित् । विना शस्त्रैर्जयो यस्य मोहनं तं नमाम्यहम् ॥ ५॥ मोहनं शत्रुसङ्घानां मोहनं सुहृदां तथा । निस्त्रैगुण्यं जितात्मानं मोहनं प्रणमाम्यहम् ॥ ६॥ धर्मयुद्धे जना येन वयं सर्वे निमन्त्रिताः । सोऽयमद्य पुरोऽस्माकं वर्तते पुरुषर्षभः ॥ ७॥ कुत्वा शिरसि तस्याज्ञां तद्वर्त्मपरिगृह्य च । ईप्सितं प्राप्नुयामेति दिशतु कमलापतिः ॥ ८॥ इति मोहनाष्टकम् । Mahatma Gandhi's name was Mahandas Karamchand Gandhi