अक्षर आकार:

मेधां देहि सरस्वति मातः

Medham Dehi Sarasvati Matah

मेधां देहि सरस्वति मातः

मेधां देहि सरस्वति मातः वन्दामहे चरणम् । मुग्धभावकन्दलिता बाला यामोऽनिशं शरणम् ॥ वेदशास्र-सकलागम-पूजिते विमलं कुरु नो हृदयम् । काव्य-नृत्य-सङ्गीत-कलाविदे तव पदनिरता वयम् ॥ वीणा-पुस्तक-माला-धारिणि रसनायां वस सततम् । भेदभाव-कल्मष-रहितं तनु दर्पणसदृशं चित्तम् ॥ - गु. गणपय्यहोळ्ळः