अक्षर आकार:

मन्त्रराजस्तोत्रं अथवा बाणकृतम् शिवस्तोत्रम्

Mantrarajastotra from Brahmavaivarta Purana

मन्त्रराजस्तोत्रं अथवा बाणकृतम् शिवस्तोत्रम्

ब्रह्मवैवर्त पुराणान्तर्गतम् सौतिरुवाच । इदं च कवचं प्रोक्तं स्तोत्रं च श‍ृणु शौनक । मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान् पुरा ॥ ५५॥ ॐ नमः शिवाय । बाणासुर उवाच । वन्दे सुरणां सारं च सुरेशं नीललोहितम् । योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् ॥ ५६॥ ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् । तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ ५७॥ तपोरूपं तपोबीजं तपोधनधनं वरम् । वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः ॥ ५८॥ कारणं भुक्तिमुक्तीनां नरकार्णवतारणम् । आशुतोषं प्रसन्नास्यं करुणामयसागरम् ॥ ५९॥ हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम् । ब्रह्मज्योतिस्वरूपं च भक्तानुग्रहविग्रहम् ॥ ६०॥ विषयाणां विभेदेन बिभ्रन्तं बहुरूपकम् । जलरूपमग्निरूपमाकाशरूपमीश्वरम् ॥ ६१॥ वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुम् । आत्मनः स्वपदं दातुं समर्थमवलीलया ॥ ६२॥ भक्तजीवनमीशं च भक्तानुग्रहकारकम् । वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् ॥ ६३॥ अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् । व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् ॥ ६४॥ त्रिशूलपट्टिशधरं सम्मितं चन्द्रशेखरम् । इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः ॥ ६५॥ प्रणमत् शङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः । इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने ॥ ६६॥ कथितं च महास्तोत्रं शूलिनः परमाद्भुतम् । इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः ॥ ६७॥ स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् । अपुत्रो लभते पुत्रं वर्षमेकं श‍ृणोति यः ॥ ६८॥ संयतश्च हविष्याशी प्रणम्य शङ्करं गुरुम् । गलत्कुष्ठी महाशूली वर्षमेकं श‍ृणोति यः ॥ ६९॥ अवश्यं मुच्यते रोगात् व्यासवाक्यमिति श्रुतम् । कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् । स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनात् ध्रुवम् ॥ ७१॥ भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं श‍ृणोति यः । मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् ॥ ७२॥ यक्ष्मग्रस्तो वर्षमेकमास्थिको यः श‍ृणोति चेत् । निश्चितं मुच्यते रोगात् शङ्करस्य प्रसादतः ॥ ७३॥ यः श‍ृणोति सदा भक्त्या स्तवराजमिदं द्विज । तस्यासाध्यं त्रिभुवने नास्ति किञ्चिच्च शौनक ॥ ७४॥ कदाचिद्बन्धुविच्छेदो न भवेत् तस्य भारते । अचलं परमैश्वर्यं लभते नात्र संशयः ॥ ७५॥ सुसंयतोऽतिभक्त्या च मासमेकं श‍ृणोति यः । अभार्यो लभते भार्यां सुविनीतां सतीं रमाम् ॥ ७६॥ महामूर्खश्च दुर्मेधा मासमेकं श‍ृणोति यः । बुद्धिं विद्यां च लभते गुरूपदेशमात्रतः ॥ ७७॥ कर्मदुःखी दरिद्रश्च मासं भक्त्या श‍ृणोति यः । ध्रुवं वित्तं भवेत् तस्य शङ्करस्य प्रसादतः ॥ ७८॥ इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् । नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् ॥ ७९॥ पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् । यः श‍ृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् ॥ ८०॥ इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे स्तवराजोऽयमूनविंशोऽध्यायः ॥ brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 55-80