अक्षर आकार:

मनसा सततं स्मरणीयम्

Manasa Satatam Smaraniyam

मनसा सततं स्मरणीयम्

मनसा सततं स्मरणीयं वचसा सततं वदनीयं लोकहितं मम करणीयम् ॥ लोकहितम् ॥ न भोगभवने रमणीयं न च सुखशयने शयनीयम् । अहर्निशं जागरणीयं लोकहितं मम करणीयम् ॥ १॥ न जातु दुःखं गणनीयं न च निजसौख्यं मननीयम् । कार्यक्षेत्रे त्वरणीयं लोकहितं मम करणीयम् ॥ २॥ दुःखसागरे तरणीयं कष्टपर्वते चरणीयम् । विपत्तिविपिने भ्रमणीयं लोकहितं मम करणीयम् ॥ ३॥ गहनारण्ये घनान्धकारे बन्धुजना ये स्थिता गह्वरे । तत्र मया सञ्चरणीयं लोकहितं मम करणीयम् ॥ ४॥ - डाॅ श्रीधर भास्कर वर्णेकर