अक्षर आकार:

मम माता देवता

Mama Mata Devata

मम माता देवता

मम माता देवता । मम माता देवता ॥ अतिसरला, मयि मृदुला गृह कुशला, सा अतुला ॥ १॥ पाययति दुग्धं, भोजयति भक्तं लालयति नित्यं, तोषयति चित्तम् ॥ २॥ सायङ्काले नीराजयति पाठयति च मां शुभङ्करोति ॥ श्लो ॥ शुभं कुरु त्वं कल्याणं आरोग्यं धनसम्पदः । दुष्टबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते ॥ पाठयति च मां शुभङ्ककरोति ॥ ३॥ रात्रौ अङ्के मां स्वापयति मधु मधु मधुरं गीतं गायति आ आ आ आ आ ॥ ४॥ - श्री ल.म. चक्रदेवः