अक्षर आकार:

मम देशो भारतं मम भाषा संस्कृतम्

Bharat is My Country and Samskritam My Language

मम देशो भारतं मम भाषा संस्कृतम्

मम देशो भारतं मम भाषा संस्कृतम् । जन्मभूमिरस्माकं भारतं भारतम् ॥ ध्रु॥ जननीयं वाङ्मयस्य संस्कृतं संस्कृतम् । अनाद्यनन्त विश्वविहित शौर्य धैर्य किर्तीसहित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ १॥ पुण्यभूमिरस्माकं भारतं भारतम् । करणेन सर्वधर्म संस्कृता संस्कृता । हिन्दु ख्रिस्त सीख मुस्लिम जातिमतविभागरहित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ २॥ वेदभूमिरस्माकं भारतं भारतम् । सर्वजनसमैक्य भावबन्धुरं भारतम् । सत्यधर्मस्नेहशान्ति विश्वबन्धुभावभरित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ ३॥