अक्षर आकार:

मृदपि च चन्दनम्

Mridapi Cha Chandanam

मृदपि च चन्दनम्

मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्रामः सिद्धवनम् । यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ॥ हरिमन्दिरमिदमखिलशरीरं धनशक्ती जनसेवायै यत्र च क्रीडायै वनराजः धेनुर्माता परमशिवा नित्यं प्रातः शिवगुणगानं दीपनुतिः खलु शत्रुपरा ॥ १॥ भाग्यविधायि निजार्जितकर्म यत्र श्रमः श्रियमर्जयति त्यागधनानां तपोनिधीनां गाथां गायति कविवाणी गङ्गाजलमिव नित्यनिर्मलं ज्ञानं शंसति यतिवाणी ॥ २॥ यत्र हि नैव स्वदेहविमोहः युद्धरतानां वीराणां यत्र हि कृषकः कार्यरतः सन् पश्यति जीवनसाफल्यं जीवनलक्ष्यं न हि धनपदवी यत्र च परशिवपदसेवा ॥ ३॥ - जनार्दन हेगडे