अक्षर आकार:

मातृभूमिवन्दना

Matribhumi Vandana

मातृभूमिवन्दना

मातृभूमे नमो मातृभूमे नमो । मातृभूमे नमो मातृभूमे नमः ॥ अग्रतस्ते नमः पृष्ठतस्ते नमः, ऊर्ध्वतस्ते नमश्चाऽप्यधस्ते नमः, वामतस्ते नमो दक्षिणे ते नमो । मातृभूमे नमो मातृभूमे नमः ॥ ते गिरिभ्यो नमस्ते नदीभ्यो नमः, ते वनेभ्यो नमो जनपदेभ्यो नमः, ते कणेभ्यो नमस्ते अणुभ्यो नमो । मातृभूमे नमो मातृभूमे नमः ॥ प्राणदे त्राणदे देवि शक्तिप्रदे, ऋद्धिदे सिद्धिदे भुक्ति-मुक्तिप्रदे, सर्वदे ! सर्वदा देवि ! तुभ्यं नमो । मातृभूमे नमो मातृभूमे नमः । - वासुदेव द्विवेदी शास्त्री