अक्षर आकार:

मातृभूमिस्तवः

Matribhumi Stava

मातृभूमिस्तवः

(गीतिका) (स्रग्विणी वृतम्) मातृभूमि सदा देवभूमि शुभा देववर्यैवृता वीरवर्यै स्तुता । भारती भूरिय रत्नगर्भा मता स्वर्णभूमिर्मणीना सनि समता ॥ मातृ०॥ मातृभूमेस्तु तुल्य न किञ्चिद् भवे मातृभूमिस्तु स्वर्गादपि श्रेयसी । प्राणदात्री सदा चान्नदात्री स्थिता पालिका पोषिका मातृरूपा मता ॥ मातृ०॥ मातृभूमि सदा वन्द्यते स्तूयते पुत्ररूपा वयं स्नेहभाजो मता । मातृभूमेरृणान्नैव मुक्तिभवे प्राणदान सदाऽपेक्षते मातृभू ॥ मातृ०॥ क्रान्तिदूतैः सदा प्राणदानैः स्तुता शान्तिदूतैः सदा स्वार्थत्यागाद् वृता । धर्मनिष्ठैः स्वदेहार्पणेनाऽऽदृता देशभक्तैश्च शूलि प्रियेवाऽऽदृता ॥ मातृ०॥ स्वर्गरूपा सदा स्नेहरूपा प्रिया हैम-विन्ध्याद्रिमाला-गुणालङ्कृता । शस्य श्यामा सरिद्धि सुरक्ताञ्चिता पद्मजा शैलजा नीरजेवाऽऽदृता ॥ मातृ०॥ अन्नदानैः सदा तोयदानैः स्तुता कन्द-मूलैः सुपुष्पैः फलैर्मण्डिता । पूतपासु श्रिता तीर्थराजैः शुभैः मातृशक्तिः सदा प्रेरणादायिनी ॥ मातृ०॥ शक्तिदात्री सदा स्नेहस्रोत प्रिया सौख्यधामी सदा शान्तिरूपा मता । तेऽघ्रियुग्म सदा पाप-सन्तापहं दोषह रोषह क्लेशह द्वेषहम् ॥ मातृ०॥ विश्वशान्ते सदा शिक्षिका शान्तिदा शान्तिधामाऽश्रया श्रेयसे ज्ञानदा । विश्ववन्धुत्व-शिक्षाप्रदा भैरवा शत्रु-संहारिणी दैत्य विध्वंसिनी ॥ मातृ०॥ भारतीया समे ते सुता लालिता पालिता पोषिता स्नेह-संवर्धिता । भ्रातृरूपा न तेषां विरोध शुभ स्नेह-भावोदय प्रोते कारक ॥ मात०॥ धर्मभेदो न वा जातिभेद शुभो । वर्गभेदो न वा वर्णभेद शुभ । मातृभूमे समुत्कर्षहेतोर्मुदा प्राणदानं वरं वित्तदानं शुभम् ॥ मातृ०॥