अक्षर आकार:

मातृभूमिसूक्तम्

Matribhumi Suktam

मातृभूमिसूक्तम्

सत्यं वृहद् ऋतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । सा नो भूतस्य भव्यस्य पत्नी उरुं लोकं पृथिवी नः करोतु ॥ यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् । गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥ विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । वैश्वानरं विभ्रती भूमिरग्निं इन्द्र ऋषभा द्रविणे नो दधातु ॥ जनं विभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । सहस्र धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥ निधिं विभ्रती बहुधा गुहा वसु । मणि हिरण्यं पृथिवी ददातु मे । वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥ उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः । दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥ भूमे मातर्निधेहि मा भद्रया सुप्रतिष्ठितम् । संविदाना दिवा कवे श्रियं मा धेहि भूत्याम् ॥ -अथर्ववेद का० १२ सू० १, मं० १,३,६, ४५, ४५, ६२, ६३।