अक्षर आकार:

मानसं मम विकसितं कुरु

mAnasaM mama vikasitaM kuru

मानसं मम विकसितं कुरु

अस्माकं शरीरं रथवत् अस्ति । पञ्च अश्वाः एनं वहन्ति-चक्षुः, श्रोत्रम्, नासिका, जिह्वा, त्वक् च । मनः एतैः संसारस्य विषयाणां उपभोगाय मनुष्यं प्रेरयति । यदि मनुष्यः मनः संयम्य विवेकेन कार्यं करोति तदा जीवने सुखं प्राप्नोति । यदि अविवेकेन कार्यं करोति तदा जीवनं नश्यति । अतः मनसः विकासः अपेक्षितः । वेदेषु अपि कथितम्-तन्मे मनः शिवसङ्कल्पमस्तु । गीतायामपि उक्तम् - असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ अतः कविवरः रवीन्द्रठाकुरमहाभागाः एतस्यां कवितायां मनसः विकासार्थं ईश्वरं प्रति प्रार्थनां करोति । मानसं मम विकसितं कुरु मानसचर हे । कुरु निर्मलं उज्ज्वलं अयि चिर सुन्दर हे । उद्यतं अतिप्रबुद्धं अपि निर्भयं कुरु हे । सुशिवं अनलसं अति निःसंशयं कुरु हे । आन्तरं मम विकसितं कुरु आन्तरतर हे । योजय मां निखिलसङ्गे मुञ्च हे मम बन्धनम् । सञ्चारय सकलकर्मसु शान्तं तवच्छन्दः । चरणपद्मे चित्तं मम निष्पन्दितं कुरु हे । कुरु नन्दितम्, अतिनन्दितम्, अभिनन्दितं हे । आन्तरं मम विकसितं कुरु आन्तरतर हे । अन्वयः हे मानसचर मम मानसं विकसितं कुरु । हे अयि चिर सुन्दर (मम मानसं) उज्ज्वलं निर्मलं कुरु । हे उद्यतं अतिप्रबुद्धं अपि निर्भयं कुरु । हे सुशिवं अनलसं अति निःसंशयं कुरु । हे आन्तरतर मम आन्तरं विकसितं कुरु । मां निखिलसङ्गे योजय, मम बन्धनं मुञ्च । सकलकर्मसु सञ्चारय, शान्तं तव छन्दः । हे मम चित्तं चरणपद्मे निष्पन्दितं करु । हे नन्दितम्, अतिनन्दितम्, अभिनन्दितं कुरु । हे आन्तरतर ! मम आन्तरं विकसितं कुरु । From CBSE textbook Sanskrit Ritika for Standard XI.