अक्षर आकार:

मालावत्याः परमेश्वर अथवा महापुरुषस्तोत्रम्

mAlAvatyAH parameshvarastotram

मालावत्याः परमेश्वर अथवा महापुरुषस्तोत्रम्

वन्दे तं परमात्मानं सर्वकारणकारणम् । विना येन शवाः सर्वे प्राणिनो जगतीतले ॥ ९॥ १ निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु । विद्यमानमदृष्टं च सर्वैः सर्वत्र सर्वदा ॥ १०॥ २ येन सृष्टा च प्रकृतिः सर्वाधारा परात्परा । ब्रह्मविष्णुशिवादीनां प्रसूर्या त्रिगुणात्मिका ॥ ११॥ ३ जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया । पाता विष्णुश्च जगतां संहर्ता शंकरः स्वयम् ॥ १२॥ ४ ध्यायन्ते यं सुराः सर्वे मुनयो मनवस्तथा । सिद्धाश्च योगिनः सन्तः संततं प्रकृतेः परम् ॥ १३॥ ५ साकारं च निराकारं परं स्वेच्छामयं विभुम् । वरं वरेण्यं वरदं वरार्हं वरकारणम् ॥ १४॥ ६ तपःफलं तपोबीजं तपसां च फलप्रदम् । स्वयं तपःस्वरूपं च सर्वरूपं च सर्वतः ॥ १५॥ ७ सर्वाधारं सर्वबीजं कर्म तत्कर्मणां फलम् । तेषां च फलदातारं तद्बीजं क्षयकारणम् ॥ १६॥ ८ स्वयं तेजःस्वरूपं च भक्तानुग्रहविग्रहम् । सेवा ध्यानं न घटते भक्तानां विग्रहं विना ॥ १७। ९ तत्तेजो मण्डलाकारं सूर्यकोटिसमप्रभम् । अतीव कमनीयं च रूपं तत्र मनोहरम् ॥ १८॥ १० नवीननीरदश्यामं शरत्पङ्कजलोचनम् । शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ॥ १९॥ ११ कोटिकन्दर्पलावण्यं लीलाधाममनोहरम् । चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्॥ २०॥ १२ द्विभुजं मुरलीहस्तं पीतकौशेयवाससम् । किशोरवयसं शान्तं राधाकान्तमनन्तकम् ॥ २१॥ १३ गोपाङ्गनापरिवृतं कुत्रचिन्निर्जने वने । कुत्रचिद्रासमध्यस्थं राधया परिषेवितम् ॥ २२॥ १४ कुत्र्चिद्गोपवेषं च वेष्टितं गोपबालकैः । शतश‍ृङ्गाचलोत्कृष्टे रम्ये वृन्दावने वने ॥ २३॥ १५ निकरं कामधेनूनां रक्षन्तं शिशुरूपिणम् । गोलोके विरजातीरे पारिजातवने वने ॥ २४॥ १६ वेणुं क्वणन्तं मधुरं गोपीसंमोहकारणम् । निरामये च वैकुण्ठे कुत्रचिच्च चतुर्भुजम् ॥ २५॥ १७ लक्ष्मीकान्तं पार्षदैश्च सेवितं च चतुर्भुजैः । कुत्रचित्स्वांशरूपेण जगतां पालनाय च ॥ २६॥ १८ श्वेतद्वीपे विष्णुरूपं पद्मया परिषेवितम् । कुत्रचित्स्वांशकलया ब्रह्माण्डे ब्रह्मरूपिणम् ॥ २७॥ १९ शिवस्वरूपं शिवदं स्वांशेन शिवरूपिणम् । स्वात्मनः षोडशांशेन सर्वाधारं परात्परम् ॥ २८॥ २० स्वयं महाविराड्रूपं विश्वौघो यस्य लोमसु । लीलया स्वांशकलया जगतां पालनाय च ॥ २९॥ २१ नानावतारं बिभ्रन्तं बीजं तेषां सनातनम् । वसन्तं कुत्रचित्सन्तं योगिनां हृदये सताम् ॥ ३०॥ २२ प्राणरूपं प्राणिनां च परमात्मानमीश्वरम् । तं च स्तोतुमशक्ताऽहमबला निर्गुणं विभुम् ॥ ३१॥ २३ निर्लक्ष्यं च निरीहं च सारं वाङ्मनसोः परम् । यं स्तोतुमक्षमोऽनन्तः सहस्रवदनेन च ॥ ३२॥ २४ पञ्चवक्त्रश्चतुर्वक्त्रो गजवक्त्रः षडाननः । यं स्तोतुं न क्षमा माया मोहिता यस्य मायया ॥ ३३॥ २५ यं स्तोतुं न क्षमा श्रीश्च जडीभूता सरस्वती । वेदा न शक्ता यं स्तोतुं को वा विद्वांश्च वेदवित् ॥ ३४॥ २६ किं स्तौमि तमनीहं च शोकार्ता स्त्री परात्परम् । इत्युक्त्वा सा च गन्धर्वी विरराम रुरोद च ॥ ३५॥ २७ इति मालावतिकृतं महापुरुषस्तोत्रम् ॥ श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे अष्टादशाध्यायान्तर्गते गन्धर्वजीवदान महापुरुषस्तोत्रप्रणयनम् ॥ brahmavaivartapurANa brahmakhaNDaM adhyAya 18 shloka 9-35