अक्षर आकार:

लोकतन्त्रं जयेत्

Lokatantram Jayet

लोकतन्त्रं जयेत्

(स्रग्विणी वृत्तम्) लोकतन्त्रे हितं लोकतन्त्रे सुखं लोकतन्याश्रया वृत्तिरिष्टा जने । लोकतन्त्रे जनानां, समृद्धि शुभां लोकतन्त्रे जनानां विवृद्धि ध्रुवा ॥ लोकतन्त्रे जनानां मतं शासनं लोक्तन्त्रे जनानां हितं साधनम् । लोकतन्त्रे जनानां प्रभुत्वं मतं लोकतन्त्रे जनाना गुरुत्व मतम् ॥ लोकतन्त्रे क्रिया राष्ट्र-संवर्धनी लोकतन्त्रे गतिर्गौरवाधायिनी । लोकतन्त्रे धृति सत्यनिष्ठा मतां लोकतन्त्रे धृतिं सर्व-दुःखौघहा ॥ लोकतन्त्रे न किं किं सुखं साध्यते लोकतन्त्रे न किं गौरवं प्राप्यते । लोकतन्त्रे न किं मानमासाद्यते लोकतन्त्रे न वा किं हितं लभ्यते ॥ लोकतन्त्रे न धर्मादि भेदो मतम्, लोकतन्त्रे न जात्यादि-भेद शुभम् । लोकतन्त्रे न वा शोषणं सम्मतं लोकन्त्रे न हिंसा-प्रवृत्तिर्वृता ॥ लोकतन्त्रे गुणाः सर्वधर्मोदयो वर्ण-भेदो न वा वर्ग-भेदो मतम् । लोकतन्त्रे न व्यष्टेर्महत्त्वं मतं लोकतन्त्रे समष्टेर्गुणा संहती ॥ लोकतन्त्रे न दैन्यं न वा शोषणं क्षुत्पिपासाऽऽधि-व्याधे सदा शोषणम् । दीन-हीनार्त-लोकस्य संरक्षणं संस्कृतेर्रक्षणं सभ्यता-रक्षणम् ॥ लोकतन्त्रे गुणाः, वर्जिता सा घृणा, लोकतन्त्रे प्रियं, वर्जिता यातना । लोकतन्त्रे सुखं, वर्जितं शोषणं लोकतन्त्रे हितं, वर्जित पीडनम् ॥ लोकतन्त्रे शिवं सुन्दरं राजते सत्यभावाश्रयं सत्य-कर्माश्रयम् । विश्वबन्धुत्व-भावोदयं सन्ततं विश्वशान्तिश्च क्रान्तिश्च मार्गो मतम् ॥ लोकतन्त्रे तु निर्वाचनं मन्यते लोकतन्त्रे मतं सम्मतं गण्यते । लोकतन्त्राश्रया राजनीतिर्मता लोकतन्त्राश्रयैव व्यवस्था मता ॥ लोकतन्त्रे तु राज्यं मतं साधनं लोक-सौख्यं सदा साध्यमेवाश्रितम् । व्यक्ति-स्वातन्त्र्यमेवात्र मुख्यं मतं निर्णयो निग्रहो वा मतेनाऽऽस्थितम् ॥ लोकतन्त्रे मतानां महत्त्वं मतं राजनीतिश्च निर्वाचने संस्थिता । राजतन्त्रं तु निर्वाचितैश्चाल्यते राष्ट्रसूत्रं च तैरेव सन्धार्यते ॥ लोकतन्त्रे विधानं सुधारो विधिः निर्णयो निग्रहो लोक-संस्थापनम् । देशनीतिर्विदेशस्थ-नीति समा लोक-निर्वाचितैरेव निर्णीयते ॥ लोकतन्त्रेऽधिकाराः समे मौलिकाः, राजनीतिः समानाधिकाराश्रिया । बन्धुता मित्रता स्निग्धता संश्रिता, भ्रातृभावोदयं सौख्य सञ्चारकम् ॥ ग्राम-पञ्चायतानां दृढा संस्थितिः मण्डलानां विभिन्नाश्च संस्था स्थिता । स्थानमूलं स्वराज्यस्य संस्थापनं लोकतन्मस्य मूलं मतं संवतम् ॥ लोकतन्त्रं तु वेदादिभिः स्वीकृतं विश्ववन्द्यैः सुधीभिश्च सम्मानितम् । लिङ्कनेनादृतं गान्धिना पोषितं विश्वशान्तेश्च सौख्यस्य मूल मतम् ॥ लोकतन्त्रे स्थिता देशभक्तिर्दृढा देशरक्षा सुरक्षा स्वराज्यं शुभम् । देशभक्तिं विना देशरक्षां विना जीवितं निष्फलं निष्फलं निष्फलम् ॥ लोकतन्त्रे विकासो विलासो ध्रुवः आर्थिकी उन्नतिं मौलिकी उद्गतिः । उद्यमस्यापि पूर्णं महत्त्वं मतं भाषणे लेखने चापि स्वातन्त्र्यकम् ॥ लोकतन्त्रे स्वदेशेऽस्ति शान्तिहढा क्रान्तिरिष्टा मतानां प्रयोगाश्रया । क्रान्ति-शान्त्योश्च सम्मेलनं दृश्यते दुःख-दावाग्नि-नाशोऽत्र संस्थीयते ॥ लोकतन्त्रं सुखस्यैक-मूलं मतं लोकतन्त्रं मतं शान्ति-संस्थापकम् । लोकतन्त्रं भजेत्, लोकतन्त्रं श्रयेत, लोकतन्त्रं जयेत्, लोकतन्त्रं चरेत् ॥