अक्षर आकार:

कुरुध्वमद्य सज्जताम्

Kurudhvamadya Sajjatam

कुरुध्वमद्य सज्जताम्

कुरुध्वमद्य सज्जतां रणाय भोः सशस्त्रतां प्रयात राष्ट्रसैनिकाः प्रयात राष्ट्रसैनिकाः ॥ समिद्ध एष सङ्गरः प्रयान्ति सैनिका रणं समेत्य कुर्महे वयं रिपूंश्च धूलिसात् क्षणम् । संहताश्च सञ्जाताः युध्येमहि युध्येमहि प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिकाः ॥ १॥ मरुत्सुताः प्रकुर्महे स्वमुष्टिसाद् दिवाकरं अगस्त्यवत्पिबेम छुल्लुकीकृतं च सागरम् । बाला ह्यभिमन्यवः क्षणाज्जयेम चान्तकं प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिकाः ॥ २॥ चन्द्रगुप्तमद्य संस्मरेम भीमविक्रमं धमनिसञ्चितं वितन्महे च शिवपराक्रमम् । महापरम्परामिमां च कुर्महे त्वखण्डितां प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिकाः ॥ ३॥ अग्निकुण्डमत्र चण्डताण्डवं समन्ततः निहत्य शक्तिमासुरीं विदध्महे तदाहुतिम् । वंश एष विख्यातो मार्ग एष नो महान् प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिकाः ॥ ४॥ - डाॅ श्रीकान्त बहुलकरः, श्री वामनराव अभ्यङ्कर च