अक्षर आकार:

क्रान्तिगीतम्

Kranti Gitam

क्रान्तिगीतम्

(गीतिका) (स्रग्विणी वृत्तम्) क्रान्तिगीतं भजध्वं भजध्वं सखे । क्रान्तिमार्गं श्रयध्वं श्रयध्वं सखे । क्रान्ति-गीतामृतं पीयतां पीयतां देशहेतोर्मुदा जीवनं दीयताम् ॥ क्रान्ति०॥ पालिना पोषिता वर्धिता लालिता मातृभूम्यां स्वरक्तार्चितास्तोषिता । दुष्ट-दैत्यैहृता शोषिता पीडिता क्लेश-घातेन दुखेन सम्पीडिता ॥ क्रान्ति०॥ धर्म एषोऽस्ति मातुः सदा रक्षणे प्राणदानं मुदा संश्रयध्वं सखे । पासुभिः पूतपूतैर्विवृद्धिं गता रक्षणीया सदा प्राणदानेन सा ॥ क्रान्ति०॥ क्रान्तिवह्नि समन्ताच्चरेद् भारते क्षोभ-दावाग्नि-दाहो दहेज्जीवनम् । लोभ-कामादि-कीटाणु-नाशो भवेत् स्वार्थनाशोऽस्तु दैन्याऽधिनाशो भवेत् ॥ क्रान्ति०॥ जागृति सञ्चरेत्, क्रोधवह्नि सरेद्, मातृ-दुःखाग्नि-दाहो जने सञ्चरेत् । व्योममालां प्रवर्धेत् स्फुलिंङ्गान् सदा जीवने क्षोभमालां प्रवृद्धिं व्रजेन् ॥ क्रान्ति०॥ त्रायतां त्रायतां रक्ष्यतां रक्ष्यतां मातृभूमिहृता हीनवृत्तैरियम् । त्रास-शोकेन सन्तप्तगात्रा सदा रक्षणं याचते स्व-सुपुत्रानियम् ॥ क्रान्ति०॥ क्रान्ति-मन्त्रोदयं स्यात् समन्तात् शुभं क्रान्ति दावाग्नि-दाहश्चरेज्जीवने । शोक-शोषं प्रणाशो न यावद् भवेद् मातृपादेऽर्पितं स्यान्निजं जीवनम् ॥ क्रान्ति ॥ शनुनाशो भवेद्, दैत्यनाशो भवेत्, तापनाशो भवेत्, शोकनाशो भवेत् । स्वार्थलिप्सा-परः कीट-मृत्युः व्रजेद् देशद्रोही न देशेऽवशिष्टो भवेत् ॥ क्रान्ति०॥ ये तु विश्वासघाताः नरा भारते क्रान्ति-वन्हौ समे ते लयं प्राप्नुयुः । देशद्रोही न क्षम्यं कदाचिद् भवे देश-विश्वास-घाती च घात्यं सदा ॥ क्रान्ति०॥ क्रान्तिगानं चरेत्, क्रान्तिगानं सरेत् क्रान्तिगानं लसेत्, क्रान्तिगानं फलेत् । क्रान्तिगानं मतं शान्ति-मूलं सदा क्रान्तिगानं तु देशस्य सौभाग्यदम् ॥ क्रान्ति०॥